________________
१४२
९-२२
अवमौदर्यम् । अवममित्यूननाम । अवममुदरमस्य अवमोदरः, अवमोदरस्य भावः अवमौदर्यम् ।। उत्कृष्टावकृष्टौ वर्जयित्वा मध्यमेन कवलेन त्रिविधमवमौदर्य भवति । तद्यथा । अल्पाहारावमौदर्यम्, उपाविमौदर्य, प्रमाणप्राप्तात्किंचिदूनावमौदर्यमिति । कवलपरिसङ्ख्यानं च प्राग्द्वात्रिंशद्भ्यः कवलेभ्यः ।।
वृत्तिपरिसङ्घयानमनेकविधम् । तद्यथा. । उत्क्षिप्तनिक्षिप्तान्तप्रान्तचर्यादीनां सक्तुकुल्माषौदनादीनां चान्यतममभिगृह्यावशेषस्य प्रत्याख्यानम् ॥
रसपरित्यागोऽनेकविधः । तद्यथा । मद्यमांसमधुनवनीतादीनां रसविकृतीनां प्रत्याख्यानं विरसरूक्षाद्यभिग्रहश्च ।।
विविक्तशय्यासनता नाम एकान्तेऽनाबाधेऽसंसक्ते स्त्रीपशुषण्डकविवर्जिते शून्यागारदेवकुलसभापर्वतगुहादीनामन्यतमे समाध्यर्थं संलीनता ॥ . कायक्लेशोऽनेकविधः । तद्यथा । स्थानवीरास'नोत्कटुका सनैकपार्श्वदण्डायतशयनातापनाप्रावृतादीनि सम्यक्प्रयुक्तानि बाह्यं तपः । अस्मात्षड्विधादपि बाह्यात्तपसः सङ्गत्यागशरीरलाघवेन्द्रियविजयसंयमरक्षणकर्मनिर्जरा भवन्ति ॥ १९ ॥
प्रायश्चित्तविनयवैयावृत्त्यस्वाध्यायव्युत्सर्गध्यानान्युत्तरम् ॥ २० ॥
सूत्रक्रमप्रामाण्यादुत्तरमित्यभ्यन्तरमाह । प्रायश्चित्तं विनयो वैयावृत्त्यं स्वाध्यायो व्युत्सर्गो ध्यानमित्येतत्षड्विधमाभ्यन्तरं तपः ॥२०॥
__ नवचतुर्दशपंचद्विभेदं यथाक्रमं प्राग्ध्यानात् ॥ २१ ॥ तदाभ्यन्तरं तपः नवचतुर्दशपञ्चद्विभेदं भवति यथाक्रमं प्राग्ध्यानात् ॥ २१ ॥
इत उत्तरं यद्वक्ष्यामः । तद्यथा । आलोचनप्रतिक्रमणतदुभयविवेकव्युत्सर्गतपश्छेदपरिहारोपस्थापनानि ॥ २२ ॥
प्रायश्चित्तं नवभेदम् । तद्यथा । आलोचनं प्रतिक्रमणं आलोचनप्रतिक्रमणे विवेकः, व्युत्सर्गः, तपः छेदः परिहारः उपस्थापनमिति ॥
आलोचनं प्रकटनं प्रकाशनमाख्यानं प्रादुष्करणमित्यनर्थान्तरम् । प्रतिक्रमणं १. जानुप्रमाणासनसंनिविष्टस्याधस्तात् समाकृष्यते च तदासनं निवेष्टा च तदवस्थ एवास्ते । २. विनासनेन भूमौ प्राप्तस्फिग्द्वयस्य भवति ।