________________
१४१
तत्त्वार्थाधिगमसूत्रम् ज्ञानावरणोदये प्रज्ञाऽज्ञानपरीषहौ भवतः ।। १३ ॥
दर्शनमोहान्तराययोरदर्शनालाभौ ॥ १४ ॥ दर्शनमोहान्तराययोरदर्शनालाभौ यथासङ्घयं दर्शनमोहोदयेऽदर्शनपरीषहः । लाभान्तरायोदयेऽलाभपरीषहः ।। १४ ॥ चारित्रमोहे नाग्न्यारतिस्त्रीनिषद्याक्रोशयाचनासत्कारपुरस्काराः ॥ १५ ॥ चारित्रमोहोदये एते नाग्न्यादयः सप्त परीषहा भवन्ति ॥ १५ ॥
वेदनीये शेषाः ॥ १६ ॥ वेदनीयोदये शेषा एकादश परीषहा भवन्ति ये जिने संभवन्तीत्युक्तम् । कुतः शेषाः । एभ्यः प्रज्ञाज्ञानादर्शनालाभनाग्न्यारतिस्त्रीनिषद्याऽऽक्रोशयाचनासत्कारपुरस्कारेभ्य इति ॥ १६ ॥
एकादयो भाज्या युगपदेकोनविंशतः ॥ १७ ॥ ___ एषां द्वाविंशतः परीषहाणामेकादयो भजनीया युगपदेकस्मिन् जीवे आ एकोनविंशतेः । अत्र शीतोष्णपरीषहौ युगपन्न भवतः । अत्यन्तविरोधित्वात् । तथा चर्याशय्यानिषद्यापरीषहाणामेकस्य संभवे द्वयोरभावः ॥१७॥ सामायिकच्छेदोपस्थाप्यपरिहारविशुद्धिसूक्ष्मसंपराययथाख्यातानि चारित्रम्॥१८॥ __सामायिकसंयमः छेदोपस्थाप्यसंयमः परिहारविशुद्धिसंयमः सूक्ष्मसंपरायसंयमः यथाख्यातसंयम इति पञ्चविधं चारित्रम् । तत्पुलाकादिषु विस्तरेण 'वक्ष्यामः ॥१८॥
अनशनावमौदर्यवृत्तिपरिसंख्यानरसपरित्यागविविक्त
शय्यासनकायक्लेशा बाह्यं तपः ॥ १९ ॥ ___अनशनं अवमौदर्यवृत्तिपरिसङ्ख्यानं रसपरित्यागः विविक्तशय्याऽऽसनता कायक्लेश इत्येतत्षड्विधं बाह्यं तपः । 'सम्यग्योगनिग्रहो गुप्तिः' इत्यतः प्रभृति सम्यगित्यनुवर्तते । संयमरक्षणार्थं कर्मनिर्जरार्थं च चतुर्थषष्ठाष्टमादि सम्यगनशनं तपः ॥
१.
अ. ९ सू. ४८.