SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ १४० - ९-१३ पञ्चानामेव कर्मप्रकृतीनामुदयादेते परीषहाः प्रादुर्भवन्ति । तद्यथा । ज्ञानावरणवेदनीयदर्शनचारित्रमोहनीयान्तरायाणामिति ॥९॥ सूक्ष्मसंपरायच्छद्मस्थवीतरागयोश्चतुर्दश ॥ १० ॥ 'सूक्ष्मसंपरायसंयते छद्मस्थवीतरागसंयते च चतुर्दश परीषहा भवन्ति क्षुत्पिपासाशीतोष्णदंशमशकचर्याप्रज्ञाज्ञानालाभशय्यावधरोगतृणस्पर्शमलानि।।१०।। एकादश जिने ॥ ११ ॥ एकादश परीषहाः संभवन्ति जिने वेदनीयाश्रयाः । तद्यथा । क्षुत्पिपासाशीतोष्णदंशमशकचर्याशय्यावधरोगतृणस्पर्शमलपरीषहाः ॥ ११ ॥ बादरसंपराये सर्वे ॥ १२॥ बादरसंपरायसंयते सर्वे द्वाविंशतिरपि परीषहाः संभवन्ति ॥ १२ ॥ ज्ञानावरणे प्रज्ञाऽज्ञाने ॥ १३ ॥ परीषहः चर्यापरीषहः । १० निषेधनं निषेधः पापकर्मणां गमनादिक्रियायाश्च सप्रयोजनमस्या नैषेधिकी-स्मशानादिका स्वाध्यायादिभूमिः निषघेति यावत् सैव परीषहो नैषेधिकीपरीषहः । ११ शय्यापरीषहः । १२ आक्रोशनमाक्रोशः असत्यभाषात्मकः, स एव परीषहः आक्रोशपरीषहः । १३ वधपरीषहः । १४ याचापरीषहः । १५ अलाभपरीषहः १६ रोगपरीषहः । १७ तृणस्पर्शपरीषहः । १८ जल्ल(मल)परीषहः । १९ सत्कारपुरस्कारपरीषहः । २० प्रज्ञापरीषहः । २१ अज्ञानपरीषहः । २२ दर्शनं सम्यग्दर्शनं तदेव क्रियादिवादिना विचित्रमतश्रवणेऽपि सम्यक्परिषह्यमाणं निश्चलचित्ततया धार्यमाणं परीषहो दर्शनपरीषहः । यद्वा-दर्शनशब्देन दर्शनव्यामोहहेतुरैहिकामुष्मिकफलानुपलम्भादिरिह गृह्यते, ततः स एव परीषहो दर्शनपरीषहः । १. सूक्ष्मसम्परायसंयतगुणस्थानस्य लक्षणम्-अतिसूक्ष्मसंज्वलनलोभकषायसत्त्वविषयकत्वम्, गुणश्रेणिसमारोहणे सति दशमगुणस्थानवर्तिरूपत्वं वा सूक्ष्मसम्परायचारित्रस्य लक्षणम् । २. छद्म आवरणं, तत्र स्थिताः छद्मस्थाः सावरणज्ञाना इत्यर्थः । वीतोऽपेतो रागः सकलमोहोपशमात् समस्तमोहक्षयाच्च यस्यासौ वीतरागः क्रमेणैकादशगुणस्थानवर्ती द्वादशस्थानवर्ती च संयतौ ग्राह्यौ । ३. बादराः अकिट्टीकृताः सम्परायाः-संज्वलनक्रोधादयो यस्मिन् स तथा ।
SR No.022503
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherRatnatrai Aradhak Sangh
Publication Year
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy