SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ १३९ तत्त्वार्थाधिगमसूत्रम् रायोदयाभिभूतस्य, सम्यग्दर्शनादिविशुद्धो बोधिदुर्लभो भवतीत्यनुचिन्तयेत् । एवं ह्यस्य बोधिदुर्लभत्वमनुचिन्तयतो बोधिं प्राप्य प्रमादो न भवतीति 'बोधिदुर्लभत्वानुप्रेक्षा । सम्यग्दर्शनद्वारः पञ्चमहाव्रतसाधनो द्वादशाङ्गोपदिष्टतत्त्वो गुप्त्यादिविशुद्धव्यवस्थानः संसारनिर्वाहको निःश्रेयसप्रापको भगवता परमर्षिणाऽर्हताऽहोरे व्याख्यातो धर्म इत्येवमनुचिन्तयेत् । एवं ह्यस्य धर्मस्वाख्याततत्त्वमनुचिन्तयतो मार्गाच्यवने तदनुष्ठाने च व्यवस्थानं भवतीति धर्मस्वाख्याततत्त्वानुचिन्तनानुप्रेक्षा ।।७।। उक्ता अनुप्रेक्षाः । परीषहान्वक्ष्यामः । मार्गाच्यवननिर्जरार्थं परिषोढव्याः परीषहाः ॥ ८ ॥ सम्यग्दर्शनादेर्मोक्षमार्गादच्यवनार्थं कर्मनिर्जरार्थं च परिषोढव्याः परीषहा इति ॥८॥ तद्यथा । क्षुत्पिपासाशीतोष्णदंशमशकनाग्न्यारतिस्त्रीचर्यानिषद्याशय्याक्रोशवधयाचनालाभरोगतृणस्पर्शमलसत्कारपुरस्कारप्रज्ञाज्ञानादर्शनानि ॥ ९ ॥ क्षुत्परीषहः पिपासा शीतं उष्णं दंशमशकं नाग्न्यं अरतिः स्त्रीपरीषहः चर्यापरीषहः निषद्या शय्या आक्रोशः वधः याचनं अलाभः रोगः तृणस्पर्शः मलं सत्कारपुरस्कारः प्रज्ञाज्ञाने अदर्शनपरीषह इति। एते द्वाविंशतिधर्मविघ्नहेतवो यथोक्तं प्रयोजनमभिसंधाय रागद्वेषौ निहत्य परीषहाः परिषोढव्या भवन्ति । १. सम्यक्त्वाधिगमः जिनप्रणीतधर्मप्राप्तिरित्यर्थः । २. अहो इत्याश्चर्ये । ३. परीति समन्तात् स्वहेतुभिरुदीरिता मार्गाच्यवननिर्जरार्थं साध्यादिभिः सह्यन्ते इति परीषहाः । ते च द्वाविंशतिसंख्याकाः- १. दिगिञ्छापरीषहः (बुभुक्षापरीषहः ) बुभुक्षा अत्यन्तव्याकुलत्वहेतुरप्यसंयमभीरुतया आहारपरिपाकादिवाञ्छाविनिवर्तनेन परीति सर्वप्रकारं सह्यत इति परीषहः दिगिञ्छापरीषहः । २ एवं पिपासापि । ३ शीतं शिशिरः स्पर्शः तदेव परीषहः शीतपरीषहः । ४ एवं उष्णपरीषहः । ५ देशमशकपरीषहः । ६ अचेलं चेलाभावो जिनकल्पिकादीनाम्, अन्येषां तु भित्रमल्पमूल्यं च चेलमप्यचेलमेव तदेव परीषहो अचेलपरीषहः । ७ रमणं रति संयमविषया धृतिः, तद्विपरीता त्वरतिः सैव परीषहः अरतिपरीषहः । ८ स्त्रीपरीषहः । ९ चरणं चर्या ग्रामानुग्रामं विहरणात्मिका सैव
SR No.022503
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherRatnatrai Aradhak Sangh
Publication Year
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy