Book Title: Tattvarthadhigam Sutram
Author(s): Prashamrativijay
Publisher: Ratnatrai Aradhak Sangh
View full book text
________________
तत्त्वार्थाधिगमसूत्रम्
१४९ संयमश्रुतप्रतिसेवनातीर्थलिङ्गलेश्योपपातस्थानविकल्पतः साध्याः ॥ ५० ॥
एते पुलाकादयः पञ्च निर्गन्थविशेषा एभिः संयमादिभिरनुयोगविकल्पैः साध्याः भवन्ति । तद्यथा ।
संयमः । कः कस्मिन्संयमे भवतीति । उच्यते । पुलाकबकुशप्रतिसेवनाकुशीला द्वयोः संयमयोः 'सामायिके छेदोपस्थाप्ये' च । कषायकुशीला द्वयोः परिहारविशुद्धौ सूक्ष्मसंपराये च । “निर्ग्रन्थस्नातकावेकस्मिन् यथाख्यातसंयमे ॥
श्रुतम् । पुलाकबकुशप्रतिसेवनाकुशीला उत्कृष्टेनाभिन्नाक्षरदशपूर्वधराः । कषायकुशीलनिर्ग्रन्थौ चतुर्दशपूर्वधरौ । जघन्येन पुलाकस्य श्रुतमाचारवस्तु । बकुशकुशीलनिर्ग्रन्थानां श्रुतमष्टौ प्रवचनमातरः । श्रुतापगतः केवली स्नातक इति ॥
प्रतिसेवना । पञ्चानां मूलगुणानां रात्रिभोजनविरतिषष्ठानां पराभियोगाद् बलात्कारेणान्यतमं प्रतिसेवमानः पुलाको भवति । मैथुनमित्येके । बकुशो द्विविधः उपकरणबकुशः शरीरबकुशश्च । तत्रोपकरणाभिष्वक्तचित्तो विविधविचित्रमहाधनोपकरणपरिग्रहयुक्तो बहुविशेषोपकरणाकांक्षायुक्तो नित्यं १. समो रागद्वेषविरहरूप आयो लाभः । अथवा आयो गमनं सकलक्रियोपलक्षणमेतत् ।
सर्वा च क्रिया साधो रागद्वेषवियुक्तस्य निर्जराफला । तादृशसमस्यायः समायः । तदेव
सामायिकम् । २. प्रथमापेक्षया विशुद्धतरसर्वसावद्ययोगविरतावस्थानरूपत्वं विविक्ततरमहाव्रतारोपणरूपत्वं
पूर्वपर्यायछेदपूर्वकपर्यायान्तरे उपस्थापनरूपत्वं वा छेदोपस्थापनीयस्य लक्षणम् । ३. सावद्ययोगविरतिरूपत्वे सति तपोविशेषेण विशुद्धरूपत्वं यस्मिन् सति तपोविशेषेण
सावद्ययोगविरतस्य विशुद्धता भवति तद्रूपत्वं वा परिहारविशुद्धचारित्रस्य लक्षणम् । ४. अतिसूक्ष्मसंज्वलनलोभकषायसत्त्वविषयकत्वं गुणश्रेणिसमारोहणे सति
दशमगुणस्थानवर्तिरूपत्वं वा सूक्ष्मसंपरायचारित्र्यस्य लक्षणम् । ५. प्रक्षालितसकलघातिकर्ममलपटलः । ६. अभिन्नमन्यूनम् । एकेनाप्यक्षरेणान्यूनानि दश पूर्वाणि ग्रन्थविशेषान् धारयति । ७. चतुर्दशपूर्वान् ग्रन्थविशेषान् धारयतः । ८. आचाराङ्गं प्रथमम् । ९. पञ्च समितयः तिस्रो गुप्तयः । १०.१ प्राणातिपातः । २ मृषावादः । ३ अदत्तादानम् । ४ मैथुनम् । ५ परिग्रहः इति पञ्च
मूलगुणाः षष्ठी च रात्रिभोजनविरतिः ।

Page Navigation
1 ... 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218