Book Title: Tattvarthadhigam Sutram
Author(s): Prashamrativijay
Publisher: Ratnatrai Aradhak Sangh

View full book text
Previous | Next

Page 177
________________ १६० ...... अन्तिमकारिकाः पदप्रकरणोद्देशाध्यायप्राभृतवस्तुपूर्वाङ्गानुसारित्वमृजुमतित्वं विपुलमतित्वं परचित्तज्ञानमभिलषितार्थप्राप्तिमनिष्टानवाप्तीत्येतदादि । वाचिकं 'क्षीरात्रवित्वं मध्वात्रवित्वं वादित्वं सर्वरुतज्ञत्वं सर्वसत्त्वावबोधनमित्येतदादि । तथा विद्याधर त्वमाशीविष त्वं भिन्नाभिन्नाक्षरच तुर्दशपूर्वधरत्वमिति ।। ततोऽस्य निस्तृष्णत्वात् तेष्वनभिषक्तस्य मोहक्षपकपरिणामावस्थस्याष्टाविंशतिविधं मोहनीयं निरवशेषतः प्रहीयते । ततश्छद्मस्थवीतरागत्वं प्राप्तस्यान्तर्मुहूर्तेन ज्ञानावरणदर्शनावरणान्तरायाणि युगपदशेषतः प्रहीयन्ते । ततः संसारबीजबन्धनिर्मुक्तः फलबन्धनमोक्षापेक्षो यथाख्यातसंयतो जिनः केवली सर्वज्ञः सर्वदर्शी शुद्धो बुद्धः कृतकृत्यः स्नातको भवति । ततो वेदनीयनामगोत्रायुष्कक्षयात्फलबन्धननिर्मुक्तो निर्दग्धपूर्वोपात्तेन्धनो निरुपादान इवाग्निः पूर्वोपात्तभववियोगाद्हेत्वभावाच्चोत्तरस्याप्रादुर्भावाच्छान्तः संसारसुखमतीत्यात्यन्तिकमैकान्तिकं निरुपमं निरतिशयं नित्यं निर्वाणसुखमवाप्नोतीति ।। "एवं तत्त्वपरिज्ञानाद्विरक्तस्याऽऽत्मनो भृशम् । निरास्रवत्वाच्छिन्नायां नवायां कर्मसन्ततौ ॥ १ ॥ पूर्वार्जितं क्षपयतो यथोक्तैः क्षयहेतुभिः ।। संसारबीजं कात्स्न्येन मोहनीयं प्रहीयते ॥ २ ॥ ततोऽन्तरायज्ञानघ्नदर्शनघ्नान्यनन्तरम् । प्रहीयन्तेऽस्य युगपत् त्रीणि कर्माण्यशेषतः ॥ ३ ॥ "गर्भसूच्यां विनष्टायां यथा तालो विनश्यति । तथा कर्मक्षयं याति मोहनीये क्षयं गते ॥ ४ ॥ १. श्रृण्वतस्तदीयं वचनं क्षीरमिव स्वदते । २. मधुवन् स्वदते । ३. विद्वत्संसन्मध्येष्वपराजितत्वम् । ४. महाविद्याः सर्वा एव सदा तस्य स्वयमेवोपतिष्ठन्ते। . ५. कर्मजातिभेदादनेकप्रकारम् । ६. भिन्नाक्षराणि किंचिन्यूनाक्षराणि चतुर्दश पूर्वानि संपूर्णानि वा तद्धारणत्वम् । ७. एनमेवार्थ संक्षेपेणोपहरति श्लोकैः । ८. मस्तकसूच्यां विनष्टायां सर्वात्मना विनाशमुपयाति तालतरु । एवं मोहनीये क्षीणे सर्व शेषकर्म क्षयमेति ।

Loading...

Page Navigation
1 ... 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218