Book Title: Tattvarthadhigam Sutram
Author(s): Prashamrativijay
Publisher: Ratnatrai Aradhak Sangh

View full book text
Previous | Next

Page 191
________________ १७४ गुणसाम्ये सदृशानाम् ॥ ३४ ॥ द्व्यधिकादिगुणानां तु ॥ ३५ ॥ बन्धे समाधिक पारिणामिकौ ॥ ३६ ॥ गुणपर्यायवद् द्रव्यम् ॥ ३७ ॥ कालश्चेत्येके ॥ ३८ ॥ सोऽनन्तसमयः ।। ३९ ॥ द्रव्याश्रया निर्गुणा गुणाः ॥ ४० ॥ तद्भावः परिणामः ॥ ४१ ॥ अनादिरादिमांश्च ॥ ४२ ॥ रूपिष्वादिमान् ॥ ४३ ॥ योगोपयोगी जीवेषु ॥ ४४ ॥ षष्ठोऽध्यायः । कायवाङ्मनः कर्म योगः ॥ १ ॥ स आस्रवः ॥ २ ॥ शुभः पुण्यस्य ॥ ३ ॥ अशुभः पापस्य ॥ ४ ॥ सकषायाकषाययोः साम्परायिकेर्यापथयोः ॥ ५ ॥ मूलसूत्राणि अव्रतकषायेन्द्रियक्रियाः पञ्चचतुः पञ्चपञ्चविंशतिसंख्याः पूर्वस्य भेदाः || ६ || तीव्रमन्दज्ञाताज्ञातभाववीर्याधिकरणविशेषेभ्यस्तद्विशेषः ॥ ७ ॥ अधिकरणं जीवाजीवाः ॥ ८ ॥ आयं संरम्भसमारम्भारम्भयोगकृतकारितानुमतकषायविशेषैस्त्रिस्त्रिस्त्रिश्चतुश्चैकशः ॥ ९ ॥ निर्वर्तनानिक्षेपसंयोगनिसर्गा द्विचतुर्द्वित्रिभेदाः परम् ॥ १० ॥

Loading...

Page Navigation
1 ... 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218