________________
१७८
मूलसूत्राणि चक्षुरचक्षुरवधिकेवलानां निद्रानिद्रानिद्राप्रचलाप्रचलाप्रचलास्त्यानगृद्धिवेदनीयानि च ॥ ८॥ .
सदसद्धये ॥ ९ ॥ - दर्शनचारित्रमोहनीयकषायनोकषायवेदनीयाख्यास्त्रिद्विषोडशनवभेदाः सम्यक्त्वमिथ्यात्वतदुभयानि कषायनोकषायावनन्तानुबन्ध्य
प्रत्याख्यानप्रत्याख्यानावरणसंज्वलनविकल्पाश्चैकशः क्रोधमानमायालोभाः हास्यरत्यरतिशोकभयजुगुप्साः स्त्रीपुंनपुंसकवेदाः ॥ १० ॥
नारकतैर्यग्योनमानुषदैवानि ॥ ११ ॥ गतिजातिशरीराङ्गोपाङ्गनिर्माणबन्धनसङ्घातसंस्थानसंहननस्पर्शरसगन्धवर्णानुपूर्वगुरुलघूपघातपराघातातपोद्योतोच्छ्वासविहायो गतयः प्रत्येकशरीरत्रससुभगसुस्वरशुभसूक्ष्मपर्याप्तस्थिरादेययशांसि
सेतराणि तीर्थकृत्त्वं च ॥ १२ ॥
उच्चैर्नीचैश्च ॥ १३ ॥
दानादीनाम् ॥ १४ ॥ आदितस्तिसृणामन्तरायस्यं च त्रिंशत्सागरोपमकोटीकोट्यः
परा स्थितिः ॥ १५ ॥ सप्ततिर्मोहनीयस्य ॥ १६ ॥
नामगोत्रयोविंशति ॥ १७ ॥ . त्रयस्त्रिंशत्सागरोपमान्यायुष्कस्य ॥ १८ ॥ अपरा द्वादश मुहूर्ता वेदनीयस्य ॥ १९ ॥
नामगोत्रयोरष्टौ ॥ २० ॥ शेषाणामन्तर्मुहूर्तम् ॥ २१ ॥ विपाकोऽनुभावः ॥ २२ ॥