________________
१७६
.......
मूलसूत्राणि
तत्स्थैर्यार्थं भावनाः पञ्च पञ्च ॥ ३ ॥ हिंसादिष्विहामुत्र चापायावद्यदर्शनम् ॥ ४ ॥
दुःखमेव वा ॥ ५ ॥ मैत्रीप्रमोदकारुण्यमाध्यस्थानि सत्त्वगुणाधिकक्लिश्यमानाविनेयेषु ॥ ६ ॥
जगत्कायस्वभावौ च संवेगवैराग्यार्थम् ॥ ७ ॥ प्रमत्तयोगात्प्राणव्यपरोपणं हिंसा ॥ ८ ॥
असदभिधानमनृतम् ॥ ९ ॥ अदत्तादानं स्तेयम् ॥ १० ॥
मैथुनमब्रह्म ॥ ११ ॥ मूर्छा परिग्रहः ॥ १२ ॥ निःशल्यो व्रती ॥ १३ ॥ अगार्यनगारश्च ॥ १४ ॥
अणुव्रतोऽगारी ॥ १५ ॥ दिग्देशानर्थदण्डविरतिसामायिकपौषधोपवासोपभोग परिभोगातिथिसंविभागव्रतसंपन्नश्च ॥ १६ ॥ मारणान्तिकी संलेखनां जोषिता ॥ १७ ॥ शंकाकांक्षाविचिकित्साऽन्यदृष्टिप्रशंसासंस्तवाः
सम्यग्दृष्टेरतिचाराः ॥ १८ ॥ व्रतशीलेषु पञ्च पञ्च यथाक्रमम् ॥ १९ ॥ बन्धवधच्छविच्छेदातिभारारोपणानपाननिरोधाः ॥ २० ॥ मिथ्योपदेशरहस्याभ्याख्यानकूटलेखक्रियान्यासापहारसाकार
मन्त्रभेदाः ॥ २१ ॥ स्तेनप्रयोगतदाहृतादानविरुद्धराज्यातिक्रमहीनाधिकमानोन्मान