Book Title: Tattvarthadhigam Sutram
Author(s): Prashamrativijay
Publisher: Ratnatrai Aradhak Sangh
View full book text
________________
तत्त्वार्थाधिगमसूत्रम्
१८१
-
उपशान्तक्षीणकषाययोश्च ॥ ३८ ॥
शुक्ले चाये ॥ ३९ ॥
पूर्वविदः ॥४०॥
परे केवलिनः ॥ ४१ ॥ पृथक्त्वैकत्ववितर्कसूक्ष्मक्रियाप्रतिपातिव्युपरतक्रियानिवृत्तीनि ॥ ४२ ॥
तत् त्र्येककाययोगायोगानाम् ।। ४३ ॥
एकाश्रये सवितर्के पूर्वे ॥ ४४ ॥ ; अविचारं द्वितीयम् ॥ ४५ ॥
वितर्कः श्रुतम् ॥४६॥
विचारोऽर्थव्यानयोगसंक्रान्तिः ॥ ४७ ॥ सम्यग्दृष्टिश्रावकविरतानन्तवियोजकदर्शनमोहक्षपकोपशमकोपशान्तमोहक्षपक
क्षीणमोहजिनाः क्रमशोऽसंख्येयगुणनिर्जराः ॥ ४८॥
पुलाकबकुशकुशीलनिर्ग्रन्थस्नातका निर्ग्रन्थाः ॥ ४९ ॥ संयमश्रुतप्रतिसेवनातीर्थलिङ्गलेश्योपपातस्थानविकल्पतः साध्याः ॥ ५० ॥
दशमोऽध्यायः । मोहक्षयाज्ज्ञानदर्शनावरणान्तरायक्षयाच केवलम् ॥ १ ॥
बन्धहेत्वभावनिर्जराभ्याम् ॥ २ ॥
__ कृत्स्नकर्मक्षयो मोक्षः ॥ ३ ॥ ' औपशमिकादिभव्यत्वाभावाचान्यत्र केवलसम्यक्त्वज्ञानदर्शन
सिद्धत्वेभ्यः ॥ ४ ॥ तदनन्तरमूर्ध्वं गच्छत्यालोकान्तात् ॥ ५ ॥ पूर्वप्रयोगादसङ्गत्वाद्धन्धच्छेदात्तथागतिपरिणामाच तद्गतिः ॥ ६ ॥ क्षेत्रकालगतिलिङ्गतीर्थचारित्रप्रत्येकबुद्धबोधितज्ञानावगाहनान्तरसंख्याल्पबहुत्वतः
साध्याः ॥ ७ ॥

Page Navigation
1 ... 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218