SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ १७८ मूलसूत्राणि चक्षुरचक्षुरवधिकेवलानां निद्रानिद्रानिद्राप्रचलाप्रचलाप्रचलास्त्यानगृद्धिवेदनीयानि च ॥ ८॥ . सदसद्धये ॥ ९ ॥ - दर्शनचारित्रमोहनीयकषायनोकषायवेदनीयाख्यास्त्रिद्विषोडशनवभेदाः सम्यक्त्वमिथ्यात्वतदुभयानि कषायनोकषायावनन्तानुबन्ध्य प्रत्याख्यानप्रत्याख्यानावरणसंज्वलनविकल्पाश्चैकशः क्रोधमानमायालोभाः हास्यरत्यरतिशोकभयजुगुप्साः स्त्रीपुंनपुंसकवेदाः ॥ १० ॥ नारकतैर्यग्योनमानुषदैवानि ॥ ११ ॥ गतिजातिशरीराङ्गोपाङ्गनिर्माणबन्धनसङ्घातसंस्थानसंहननस्पर्शरसगन्धवर्णानुपूर्वगुरुलघूपघातपराघातातपोद्योतोच्छ्वासविहायो गतयः प्रत्येकशरीरत्रससुभगसुस्वरशुभसूक्ष्मपर्याप्तस्थिरादेययशांसि सेतराणि तीर्थकृत्त्वं च ॥ १२ ॥ उच्चैर्नीचैश्च ॥ १३ ॥ दानादीनाम् ॥ १४ ॥ आदितस्तिसृणामन्तरायस्यं च त्रिंशत्सागरोपमकोटीकोट्यः परा स्थितिः ॥ १५ ॥ सप्ततिर्मोहनीयस्य ॥ १६ ॥ नामगोत्रयोविंशति ॥ १७ ॥ . त्रयस्त्रिंशत्सागरोपमान्यायुष्कस्य ॥ १८ ॥ अपरा द्वादश मुहूर्ता वेदनीयस्य ॥ १९ ॥ नामगोत्रयोरष्टौ ॥ २० ॥ शेषाणामन्तर्मुहूर्तम् ॥ २१ ॥ विपाकोऽनुभावः ॥ २२ ॥
SR No.022503
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherRatnatrai Aradhak Sangh
Publication Year
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy