SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ १७७ तत्त्वार्थाधिगमसूत्रम् प्रतिरूपकव्यवहाराः ॥ २२ ॥ परविवाहकरणेत्वरपरिगृहीताऽपरिगृहीतागमनानङ्गक्रीडा तीव्रकामाभिनिवेशाः ॥ २३ ॥ क्षेत्रवास्तुहिरण्यसुवर्णधनधान्यदासीदासकुप्यप्रमाणातिक्रमाः ॥ २४ ॥ ऊर्ध्वाधस्तिर्यग्व्यतिक्रमक्षेत्रवृद्धिस्मृत्यन्तर्धानानि ॥ २५ ॥ आनयनप्रेष्यप्रयोगशब्दरूपानुपातपुद्गलक्षेपाः ॥ २६ ॥ कन्दर्पकौकुच्यमौखर्यासमीक्ष्याधिकरणोपभोगाधिकत्वानि ॥ २७ ॥ योगदुष्प्रणिधानानादरस्मृत्यनुपस्थापनानि ॥ २८ ॥ अप्रत्यवेक्षिताप्रमार्जितोत्सर्गादाननिक्षेपसंस्तारोपक्रमणानादर स्मृत्यनुपस्थापनानि ॥ २९ ॥ सचित्तसंबद्धसंमिश्राऽभिषवदुष्पकाहाराः ॥ ३०॥ . सचित्तनिक्षेपपिधानपरव्यपदेशमात्सर्यकालातिक्रमाः ॥ ३१ ॥ जीवितमरणाशंसामित्रानुरागसुखानुबन्धनिदानकरणानि ॥ ३२ ॥ अनुग्रहार्थं स्वस्यातिसर्गो दानम् ॥ ३३ ॥ विधिद्रव्यदातृपात्रविशेषात्तद्विशेषः ॥ ३४ ॥ ___ अष्टमोऽध्यायः मिथ्यादर्शनाऽविरतिप्रमादकषाययोगा बन्धहेतवः ॥ १ ॥ सकषायत्वान्जीवः कर्मणो योग्यान् पुद्गलानादत्ते ॥ २ ॥ स बन्धः ॥ ३ ॥ प्रकृतिस्थित्यनुभावप्रदेशास्तद्विधयः ॥ ४ ॥ आयो ज्ञानदर्शनावरणवेदनीयमोहनीयायुष्कनामगोत्रातन्तारायाः ॥ ५ ॥ पञ्चनवद्व्यष्टाविंशतिचतुर्द्विचत्वारिंशद्धिपञ्चभेदा यथाक्रमम् ॥ ६ ॥ मत्यादीनाम् ॥ ७ ॥
SR No.022503
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherRatnatrai Aradhak Sangh
Publication Year
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy