________________
१७३
तत्त्वार्थाधिगमसूत्रम्
नाणोः ॥ ११ ॥ लोकाकाशेऽवगाहः ॥ १२ ॥
धर्माधर्मयोः कृत्स्ने ॥ १३ ॥ एकप्रदेशादिषु भाज्यः पुद्गलानाम् ॥ १४ ॥
असंख्येयभागादिषु जीवानाम् ॥ १५ ॥ प्रदेशसंहारविसर्गाभ्यां प्रदीपवत् ॥ १६ ॥ गतिस्थित्युपग्रहो धर्माधर्मयोरुपकारः ॥ १७ ॥
आकाशस्यावगाहः ॥ १८ ॥ शरीरवाङ्मनःप्राणापानाः पुद्गलानाम् ॥ १९ ॥ सुखदुःखजीवितमरणोपग्रहाश्च ॥ २० ॥
__परस्परोपग्रहो जीवानाम् ॥ २१ ॥ वर्तना परिणामः क्रिया परत्वापरत्वे च कालस्य ॥ २२ ॥
स्पर्शरसगन्धवर्णवन्तः पुद्गलाः ॥ २३ ॥ शब्दबन्धसौक्ष्म्यस्थौल्यसंस्थानभेदतमश्छायातपोयोतवन्तश्च ॥ २४ ॥
__ अणवः स्कन्धाश्च ॥ २५ ॥ संघातभेदेभ्य उत्पद्यन्ते ॥ २६ ॥
भेदादणुः ॥ २७ ॥ भेदसंघाताभ्यां चाक्षुषाः ॥ २८ ॥ उत्पादव्ययध्रौव्ययुक्तं सत् ॥ २९ ॥ तद्भावाव्ययं नित्यम् ॥ ३० ॥
अर्पितानर्पितसिद्धेः ॥ ३१ ॥ स्निग्धरूक्षत्वाद्बन्धः ॥ ३२ ॥ न जघन्यगुणानाम् ॥ ३३ ॥