________________
१६०
...... अन्तिमकारिकाः पदप्रकरणोद्देशाध्यायप्राभृतवस्तुपूर्वाङ्गानुसारित्वमृजुमतित्वं विपुलमतित्वं परचित्तज्ञानमभिलषितार्थप्राप्तिमनिष्टानवाप्तीत्येतदादि । वाचिकं 'क्षीरात्रवित्वं मध्वात्रवित्वं वादित्वं सर्वरुतज्ञत्वं सर्वसत्त्वावबोधनमित्येतदादि । तथा विद्याधर त्वमाशीविष त्वं भिन्नाभिन्नाक्षरच तुर्दशपूर्वधरत्वमिति ।।
ततोऽस्य निस्तृष्णत्वात् तेष्वनभिषक्तस्य मोहक्षपकपरिणामावस्थस्याष्टाविंशतिविधं मोहनीयं निरवशेषतः प्रहीयते । ततश्छद्मस्थवीतरागत्वं प्राप्तस्यान्तर्मुहूर्तेन ज्ञानावरणदर्शनावरणान्तरायाणि युगपदशेषतः प्रहीयन्ते । ततः संसारबीजबन्धनिर्मुक्तः फलबन्धनमोक्षापेक्षो यथाख्यातसंयतो जिनः केवली सर्वज्ञः सर्वदर्शी शुद्धो बुद्धः कृतकृत्यः स्नातको भवति । ततो वेदनीयनामगोत्रायुष्कक्षयात्फलबन्धननिर्मुक्तो निर्दग्धपूर्वोपात्तेन्धनो निरुपादान इवाग्निः पूर्वोपात्तभववियोगाद्हेत्वभावाच्चोत्तरस्याप्रादुर्भावाच्छान्तः संसारसुखमतीत्यात्यन्तिकमैकान्तिकं निरुपमं निरतिशयं नित्यं निर्वाणसुखमवाप्नोतीति ।।
"एवं तत्त्वपरिज्ञानाद्विरक्तस्याऽऽत्मनो भृशम् । निरास्रवत्वाच्छिन्नायां नवायां कर्मसन्ततौ ॥ १ ॥ पूर्वार्जितं क्षपयतो यथोक्तैः क्षयहेतुभिः ।। संसारबीजं कात्स्न्येन मोहनीयं प्रहीयते ॥ २ ॥ ततोऽन्तरायज्ञानघ्नदर्शनघ्नान्यनन्तरम् । प्रहीयन्तेऽस्य युगपत् त्रीणि कर्माण्यशेषतः ॥ ३ ॥ "गर्भसूच्यां विनष्टायां यथा तालो विनश्यति ।
तथा कर्मक्षयं याति मोहनीये क्षयं गते ॥ ४ ॥ १. श्रृण्वतस्तदीयं वचनं क्षीरमिव स्वदते । २. मधुवन् स्वदते । ३. विद्वत्संसन्मध्येष्वपराजितत्वम् । ४. महाविद्याः सर्वा एव सदा तस्य स्वयमेवोपतिष्ठन्ते। . ५. कर्मजातिभेदादनेकप्रकारम् । ६. भिन्नाक्षराणि किंचिन्यूनाक्षराणि चतुर्दश पूर्वानि संपूर्णानि वा तद्धारणत्वम् । ७. एनमेवार्थ संक्षेपेणोपहरति श्लोकैः । ८. मस्तकसूच्यां विनष्टायां सर्वात्मना विनाशमुपयाति तालतरु । एवं मोहनीये क्षीणे सर्व
शेषकर्म क्षयमेति ।