Book Title: Tattvarthadhigam Sutram
Author(s): Prashamrativijay
Publisher: Ratnatrai Aradhak Sangh

View full book text
Previous | Next

Page 173
________________ १५६ १०-७ अव्यजिते च व्यजिते च । अव्यजिते द्वाभ्यां ज्ञानाभ्यां सिध्यति । त्रिभिश्चतुर्भिरिति । व्यञ्जिते द्वाभ्यां मतिश्रुताभ्याम् । त्रिभिर्मतिश्रुतावधिभिर्मतिश्रुतमनःपर्यायैर्वा । चतुर्भिर्मतिश्रुतावधिमनःपर्यायैरिति ।। __ 'अवगाहना । कः कस्यां शरीरावगाहनायां वर्तमानः सिध्यति । अवगाहना द्विविधा उत्कृष्टा जघन्या च । उत्कृष्टा पञ्चधनुःशतानि धनुःपृथक्त्वेनाभ्यधिकानि । जघन्या सप्तरलयोऽङ्गुलपृथक्त्वेन हीनाः । एतासु शरीरावगाहनासु सिध्यति पूर्वभावप्रज्ञापनीयस्य । प्रत्युत्पन्नभावप्रज्ञापनीयस्य तु एतास्वेव यथास्वं त्रिभागहीनासु सिध्यति ॥ अन्तरम् । सिध्यमानानां किमन्तरम् । अनन्तरं च सिध्यन्ति सान्तरं च सिध्यन्ति । तत्रानन्तरं जघन्येन द्वौ समयौ, उत्कृष्टेनाष्टौ समयान् । सान्तरं जघन्येनैकं समयम्, उत्कृष्टेन षण्मासा इति ॥ संख्या । कत्येकसमये सिध्यन्ति । जघन्येनैक उत्कृष्टेनाष्टशतम् ।। अल्पबहुत्वम् । एषां क्षेत्रादीनामेकादशानामनुयोगद्वाराणामल्पबहुत्वं वाच्यम् । तद्यथा। क्षेत्रसिद्धानां जन्मतः संहरणतश्च, कर्मभूमिसिद्धाश्चाकर्मभूमिसिद्धाश्च सर्वस्तोकाः संहरणसिद्धाः, जन्मतोऽसंख्येयगुणाः । संहरणं द्विविधं, परकृतं स्वयंकृतं च । परकृतं देवकर्मणा चारणविद्याधरैश्च । स्वयंकृतं चारणविद्याधराणामेव । एषां च क्षेत्राणां विभागः कर्मभूमिरकर्मभूमिः समुद्रा द्वीपा ऊर्ध्वमधस्तिर्यगिति लोकत्रयम् । तत्र सर्वस्तोका ऊर्ध्वलोकसिद्धाः, अधोलोकसिद्धाः संख्येयगुणाः, तिर्यग्लोकसिद्धाः संख्येयगुणाः, सर्वस्तोकाः समुद्रसिद्धाः, द्वीपसिद्धाः संख्येयगुणाः । एवं तावदव्यञ्जिते । व्यजितेऽपि सर्वस्तोका लवणसिद्धाः, कालोदसिद्धाः संख्येयगुणा, जम्बूद्वीपसिद्धाः संख्येयगुणाः, धातकीखण्डसिद्धाः संख्येयगुणाः, पुष्करार्धसिद्धाः १. आत्मनः शरीरेऽवगाहोऽनुप्रवेशः । संकोचविकासधर्मत्वादात्मनः । २. उत्कृष्टं देहमानं मरुदेवीप्रभृतीनाम् । ३. द्विप्रभृत्यानवभ्यः पृथक्त्वसंज्ञा । ४. सिद्धिगमनशून्यकालः अन्तरं, अन्तरालमित्यर्थः । ५. व्यवच्छेदः कदाचिदेकसमये द्वयोस्त्रिषु चेत्यादि यावत् षण्मासाः । ६. अष्टोत्तरशतसिद्धम् ।

Loading...

Page Navigation
1 ... 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218