Book Title: Tattvarthadhigam Sutram
Author(s): Prashamrativijay
Publisher: Ratnatrai Aradhak Sangh
View full book text
________________
तत्त्वार्थाधिगमसूत्रम्
१५५
२
प्रत्युत्पन्नभावप्रज्ञापनीयस्यालिङ्गः सिध्यति । पूर्वभावप्रज्ञापनीयस्य भावलिङ्गं प्रति स्वलिङ्गे सिध्यति । द्रव्यलिङ्गं त्रिविधं स्वलिङ्गमन्यलिङ्ग' गृहलिङ्गमिति, तत्प्रति भाज्यम् । सर्वस्तु भावलिङ्गं प्राप्तः सिध्यति ।।
चारित्रम् । प्रत्युत्पन्नभावप्रज्ञापनीयस्य नोचारित्री नोऽचारित्री सिध्यति । पूर्वभावप्रज्ञापनीयो द्विविधः - अनन्तरपश्चात्कृतिकश्च परम्परपश्चात्कृतिकश्च । अनन्तरपश्चात्कृतिकस्य यथाख्यातसंयतः सिध्यति । परम्परपश्चात्कृतिकस्य व्यञ्जितेऽव्यञ्जिते च अव्यञ्जिते त्रिचारित्रपश्चात्कृतश्चतुश्चारित्रपश्चात्कृतः पञ्चचारित्रपश्चात्कृतश्च । व्यञ्जिते सामायिकसूक्ष्मसांपरायिकयथा ख्यातपश्चात्कृतसिद्धाः छेदोपस्थाप्यसूक्ष्मसम्पराययथाख्यातपश्चात्कृतसिद्धाः सामायिकच्छेदोछेदोपस्थाप्यपरिहारविशुद्धि
सामायिकच्छेदोपस्थाप्यपरिहार
पस्थाप्यसूक्ष्मसम्पराययथाख्यातपश्चात्कृतसिद्धाः सूक्ष्मसम्पराययथाख्यातपश्चात्कृतसिद्धाः विशुद्धिसूक्ष्मसम्पराययथाख्यातपश्चात्कृतसिद्धाः ।।
प्रत्येकबुद्धबोधितः । अस्य व्याख्याविकल्पश्चतुर्विधः । तद्यथा ।
।
अस्ति 'स्वयंबुद्धसिद्धः । स द्विविधः - अर्हश्च तीर्थकर : " प्रत्येकबुद्धसिद्धश्च । । बु ँद्धबोधितसिद्धः त्रिचतुर्थी विकल्पः, परबोधकसिद्धाः ‘स्वेष्टकारिसिद्धाः ।। ज्ञानम् । अत्र प्रत्युत्पन्नभावप्रज्ञापनीयस्य' केवली सिध्ययति । पूर्वभावप्रज्ञापनीयो द्विविधः अनन्तरपश्चात्कृतिकश्च
परम्परपश्चात्कृतिकश्च
१. भौतपरिव्राजकादिवेषः ।
२. गृहे लिंगं दीर्घकेशकच्छबन्धादि ।
३. कदाचित्सलिंगः कदाचिदलिंग इति ।
४. समस्तचारित्रमोहस्योपशमक्षयान्यतररूपत्वे यथाख्यातचारित्रस्य लक्षणम् ।
५. स्वयमेव बुद्धो नान्येन बोधितः ।
६. प्रत्येकमेकमात्मानं प्रति
सति
केनचिन्निमित्तेन
शुद्धात्मस्वभावावस्थानापेक्षारूपत्वं
संजातिस्मरणाद्वल्कलचीरीप्रभृतयः
करकण्ड्वादयश्च प्रत्येकबुद्धाः ।
७. बुद्धेन ज्ञातसिद्धान्तेन विदितसंस्कारस्वभावेन बोधितो बुद्धबोधितः परबोधितः ।
८. स्वस्मै इष्टं हितं तत्करणशीलः स्वेष्टकारी न परस्मै उपदिशति किंचित् ॥ एते चत्वारोऽपि विकल्पद्वयमनुप्रविशन्ति ।
९. तृतीयार्थे प्रत्युत्पन्नभावप्रज्ञापनीयेन ।

Page Navigation
1 ... 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218