Book Title: Tattvarthadhigam Sutram
Author(s): Prashamrativijay
Publisher: Ratnatrai Aradhak Sangh

View full book text
Previous | Next

Page 165
________________ १४८ ९-४९ मोहोपशमकः' 'उपशान्तमोहः मोहक्षपकः क्षीणमोहः "जिन इत्येते दश क्रमशोऽसंख्येयगुणनिर्जराः । श्रावकाद्विरतः विरतादनन्तानुबन्धिवियोजक इत्येवं शेषाः ।। ४८॥ पुलाकबकुशकुशीलनिर्ग्रन्थस्नातका निर्ग्रन्थाः ॥ ४९ ॥ पुलाको बकुशः कुशीलो निर्ग्रन्थः स्नातक इत्येते पञ्च निर्ग्रन्थविशेषा भवन्ति । तत्र सततमप्रतिपातिनो जिनोक्तादागमानिर्ग्रन्थपुलाकाः । नैर्ग्रन्थ्यं प्रति प्रस्थिताः शरीरोपकरणविभूषानुवर्तिन ऋद्धियशस्कामाः सातगौरवाश्रिता अविवि क्तपरिवाराश्छेदशबल युक्ता निर्ग्रन्था बकुशाः । १°कुशीला द्विविधाः "प्रतिसेवनाकुशीलाः १२कषायकुशीलाश्च । तत्र प्रतिसेवनाकुशीलाः नैर्ग्रन्थ्यं प्रति प्रस्थिता अनियतेन्द्रियाः कथंचित्किंचिदुत्तरगुणेषु विराधयन्तश्चरन्ति ते प्रतिसेवनाकुशीलाः । येषां तु संयतानां सतां कथंचित्संज्वलनकषाया उदीर्यन्ते ते कषायकुशीलाः । ये वीतरागच्छद्मस्था ईर्यापथप्राप्तास्ते निर्ग्रन्थाः । ईर्या योगः पन्थाः संयमः योगसंयमप्राप्ता इत्यर्थः । सयोगाः शैलेशीप्रतिपन्नाश्च केवलिनः स्नातका इति ॥ ४९ ॥ १. तथास्यैवोपशमकः । २. मोहोऽष्टाविंशतिभेदः षोडश कषायाः सम्यक्त्वमिथ्यात्वसम्यग्मिथ्यात्वहास्यरत्यरतिभयशोक जुगुप्सास्त्रीपुंनपुंसकवेदाश्च । अस्योपशमनादुपशान्तमोहः । ३. अस्यैव सकलस्य क्षपणात् । ४. क्षपितनिरवशेषमोहः । ५. चतुर्विधघातिकर्मजयनात् । ६. धर्मोपकरणादृते परित्यक्तबाह्याभ्यन्तरोपधयो निर्ग्रन्थाः । ७. सुखशीलता-सातगौरवम् । तदाश्रिताः । गौरवशब्द आदरार्थः । ८. असंयमात्पृथग्भूता घृष्टजंघास्तैलादिकृतशरीरमृजाः कर्तरिकाकल्पितकेशा एवंविधः परिवारो येषां न । ९. सर्वदेशछेदाह्नतीचारजनितशबलेन वैचित्र्येण युक्ताः । १०. अष्टादशसहस्रभेदं शीलं तत उत्तरगुणभंगेन केनचित्कषायोदयेन वा कुत्सितं येषां ते कुशीलाः । ११. प्रतिसेवनेत्यासेवनं ज्ञानाद्यतिचाराणां भजनं तेन कुत्सितं शीलं येषां ते प्रतिसेवनाकुशीलाः । १२. कषाया संज्वलनाख्यास्तदुदयात्कुत्सितं शीलं येषाम् ।

Loading...

Page Navigation
1 ... 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218