Book Title: Tattvarthadhigam Sutram
Author(s): Prashamrativijay
Publisher: Ratnatrai Aradhak Sangh

View full book text
Previous | Next

Page 167
________________ १५० ..- ९-५० तत्प्रतिसंस्कारसेवी भिक्षुरूपकरणबकुशो भवति । शरीराभिष्वक्तचित्तो विभूषार्थं तप्रतिसंस्कारसेवी शरीरबकुशः । प्रतिसेवनाकुशीलो मूलगुणानविराधयन्त्रुत्तरगुणेषु कांचिद्विराधनां प्रतिसेवते । कषायकुशीलनिर्ग्रन्थस्नातकानां प्रतिसेवना नास्ति । तीर्थम् । सर्वे सर्वेषां तीर्थकराणां तीर्थेषु भवन्ति । एके त्वाचार्या मन्यन्ते पुलाकबकुशप्रतिसेवनाकुशीलास्तीर्थे नित्यं भवन्ति शेषास्तीर्थे वाऽतीर्थे वा ।। लिङ्गम् । लिङ्गं द्विविधम् । द्रव्यलिङ्ग भावलिङ्ग च । भावलिङ्गं प्रतीत्य सर्वे पञ्च निर्ग्रन्था भावलिङ्गे भवन्ति, द्रव्यलिङ्गं प्रतीत्य भाज्याः ॥ लेश्याः । पुलाकस्योत्तरास्तिस्रो लेश्या भवन्ति । बकुशप्रतिसेवनाकुशीलयोः सर्वाः षडपि । कषायकुशीलस्य परिहारविशुद्धस्तित्र उत्तराः । सूक्ष्मसंपरायस्य निर्ग्रन्थस्नातकयोश्च शुक्लैव केवला भवति । अयोगः शैलेशीप्रतिपन्नोऽलेश्यो भवति ।। __उपपातः । पुलाकस्योत्कृष्टस्थितिषु देवेषु सहस्रारे । बकुशप्रतिसेवनाकुशीलयोविंशतिसागरोपमस्थितिष्वारणाच्युतकल्पयोः । कषायकुशीलनिर्ग्रन्थयोस्त्रयस्त्रिंशत्सागरोपमस्थितिषु देवेषु सर्वार्थसिद्धे । सर्वेषामपि जघन्या पल्योपमपृथक्त्वस्थितिषु सौधर्मे । स्नातकस्य निर्वाणमिति ।। ___ स्थानम् । असङ्खयेयानि संयमस्थानानि कषायनिमित्तानि भवन्ति । तत्र सर्वजघन्यानि लब्धिस्थानानि पुलाककषायकुशीलयोः, तौ युगपदसङ्खयेयानि स्थानानि गच्छतः । ततः पुलाको व्युच्छिद्यते, कषायकुशीलस्त्वसङ्खयेयानि स्थानान्येकाकी गच्छति । ततः कषायकुशीलप्रतिसेवनाकुशीलबकुशा युगपदसङ्खयेयानि संयमस्थानानि गच्छन्ति । ततो बकुशो व्युच्छिद्यते । ततोऽसङ्खयेयानि स्थानानि गत्वा प्रतिसेवनाकुशीलो व्युच्छिद्यते । ततोऽसङ्खयेयानि स्थानानि गत्वा कषायकुशीलो व्युच्छिद्यते । अत ऊर्ध्वमकषायस्थानानि निर्ग्रन्थः प्रतिपद्यते । सोऽप्यसङ्खयेयानि स्थानानि गत्वा व्युच्छिद्यते । अत ऊर्ध्वमेकमेव स्थानं गत्वा निर्ग्रन्थस्नातको निर्वाणं प्राप्नोतीति, एषां संयमलब्धिरनन्तानन्तगुणा भवतीति ।। इति तत्त्वार्थाधिगमे स्वोपज्ञभाष्यसमेते नवमोऽध्यायः समाप्तः ॥ ९ ॥ १. तरन्त्यनेनेति तीर्थं वचनं प्रथमगणधरो वा । २. कदाचिदतीर्थेऽपि मरुदेवीप्रभृतयः श्रूयन्ते । मरुदेवी प्रथमतीर्थकरस्य श्रीऋषभदेवस्य माता। ३. रजोहरणमुखवस्त्रिकादि । ४. ज्ञानदर्शनचारित्राणि । ५. कदाचिद् द्रव्यलिङ्गं न निमित्तं भवति, यथा मरुदेव्यामेव ।

Loading...

Page Navigation
1 ... 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218