________________
तत्त्वार्थाधिगमसूत्रम्
२३
अत्राह । कोऽनयोः प्रतिविशेष इति । अत्रोच्यतेविशुद्ध्यप्रतिपाताभ्यां तद्विशेषः ॥ २५ ॥
1
विशुद्धिकृतश्चाप्रतिपातकृतश्चानयोः प्रतिविशेषः । तद्यथा । ऋजुमतिमनःपर्यायाद्विपुलमतिमनः पर्यायज्ञानं विशुद्धतरम् । किं चान्यत् ऋजुमतिमनःपर्यायज्ञानं प्रतिपत' त्यपि भूयः । विपुलमतिमनः पर्यायज्ञानं तु न प्रतिपततीति ।। २५ ॥
अत्राह । अथावधिमनः पर्यायज्ञानयोः कः प्रतिविशेष इति । अत्रोच्यतेविशुद्धिक्षेत्रस्वामिविषयेभ्योऽवधिमनः पर्याययोः ॥ २६ ॥
विशुद्धिकृतः क्षेत्रकृतः स्वामिकृतो विषयकृतश्चानयोर्विशेषो भवत्यवधिमनःपर्यायज्ञानयोः ।। तद्यथा । अवधिज्ञानान्मनःपर्यायज्ञानं विशुद्धतरम् । यावन्ति हि रूपीणि द्रव्याण्यवधिज्ञानी जानीते तानि मनः पर्यायज्ञानी विशुद्धतराणि मनोगतानि जानीते ॥ किं चान्यत् । क्षेत्रकृतश्चानयोः प्रतिविशेषः । अवधिज्ञानं संयतस्य' असंयतस्य वा सर्वगतिषु भवति । मनःपर्यायज्ञानं तु मनुष्यसंयतस्यैव भवति नान्यस्य ॥ किं चान्यत् । विषयकृतश्चानयोः प्रतिविशेषः । रूपि द्रव्येष्वसर्व पर्यायेष्ववधेर्विषयनि 'बन्धो भवति I तदनन्तभागे मनः पर्यायस्येति ।। २६ ॥
अत्राह । उक्तं मनः पर्यायज्ञानम् । अथ केवलज्ञानं किमिति । अत्रोच्यते । केवलज्ञानं दशमेऽध्याये वक्ष्यते । मोहक्षयाज्ज्ञानदर्शनावरणान्तरायक्षयाच्च केवलमिति । (१०.१)
१ प्रतिपतति - प्रच्यवते ।
२ पापजनक व्यापारात्सर्वथा विरतस्य मुनेः ।
३ पूर्वोक्तविपरीतस्य ।
४ रूपिद्रव्येषु - परमाण्वादिषु ।
५ एकज्ञानविषयतया सर्वपर्यायरहितेषु ।
६ विषयनिबन्धः-गोचरनिबन्धः । तद्धि एकैकस्य परमाणोः कदाचित् असंख्येयान् पर्यायान् जानाति कदाचित् संख्येयान् जघन्येन चतुरो रूपरसगन्धस्पर्शान् । न तु कदाप्यनन्तान् । केवलज्ञानस्यैवानन्तपर्यायग्राहकत्वात् । मनःपर्यायज्ञानस्य तु रूपिद्रव्याणि न सर्वाणि विषयः, अवधिज्ञानज्ञातानां द्रव्याणामनन्तभागीकृतानां य एकोऽनन्तभागस्तस्मिन्नेवास्य विषयनिबन्धः । तस्मादतीन्द्रियत्वादितौल्येऽप्यवधिमनः पर्याययोर्भेद इति सिद्धम् ।