________________
२२
१.२४
प्रतिपतति, भास्करप्रकाशवत् 'घटरक्तभावच ॥ हीयमानकं असंख्येयेषु द्वीपेषु समुद्रेषु पृथिवीषु विमानेषु तिर्यगूर्ध्वमधो यदुत्पन्नं क्रमशः संक्षिप्यमाणं प्रतिपतति आ अङ्गुलासंख्येयभागात् प्रतिपतत्येव वा परिच्छिन्नेन्धनोपादानसंतत्यग्निशिखावत् ॥ वर्धमानकं यदङ्गुलस्यासंख्येयभागादिषूत्पन्नं वर्धते आ सर्वलोकात् । अधरोत्तरारणिनिर्मथनोत्पन्नोपात्तशुष्कोपचीयमानाधीयमानेन्ध नराश्यग्निवत् ॥ अनवस्थितं हीयते वर्धते च वर्धते हीयते च । प्रतिपतति चोत्पद्यते चेति पुनः पुनरूर्मिवत् ।। अवस्थितं यावति क्षेत्रे उत्पन्नं भवति ततो न प्रतिपतत्याकेवलप्राप्तेः आभव क्षयाद्वा जा'त्यन्तरस्थायि वा भवति लिङ्गवत् ॥ २३ ॥ उक्तमवधिज्ञानम् । मनःपर्यायज्ञानं वक्ष्यामः
ऋजुविपुलमती मनःपर्यायः ॥ २४ ॥ मनःपर्यायज्ञानं द्विविधम् । ऋजुमतिमनःपर्यायज्ञानं विपुलमतिमनःपर्यायज्ञानं च ॥ २४ ॥
१ घटस्यापाकादुद्धृतस्य तडागादिनीतस्य रक्तता यथा न भ्रश्यति तद्वदानुगामिकमवधिज्ञानं
न प्रतिपतति । २ यथापनीतेन्धनाग्निज्वाला नाशमाशु प्रतिपद्यते तद्वदेतदपि । ३ अधरोत्तरी-अधउपरिवर्तिनी यावरणी शम्यादिकाष्ठनिर्मिती ताभ्यां यनिर्मथनं परस्परं
संघर्षणं तेन निष्पन्नं, तथोपात्तं प्रक्षिप्तं शुष्कं यत्तृणादि तेनोपचीयमानो वृद्धिं गच्छन्नथ च आधीयमानः पुनः पुनः क्षिप्यमाण इन्धनानां पलालादीनां राशिर्यत्राग्नौ तद्वत् । यथाग्निः प्रयत्नादुपजातः सन् पुनरिन्धनलाभाद्विवृद्धिमुपागच्छत्येवं परमशुभाघध्यवसायलाभादसौ
पूर्वोत्पत्रो वर्धत इत्यर्थः । ४ मरणं यावत् । ५ जात्यन्तरमपि गच्छन्तं जीवं न मुञ्चति तदवधिज्ञानम् । तेनान्वित एव गच्छति । ६ लिङ्गवत्-पुरुषवेदादिलिङ्गं त्रिधा तेन तुल्यं वर्तत इति लिङ्गवत् । यथा इह जन्मन्युपादाय
पुरुषवेदं जन्तुर्जात्यन्तरमाधावति । एवमवधिमपि । ७ अ. १० सू. ७.