________________
तत्त्वार्थाधिगमसूत्रम्
२१
श्रुतज्ञानं तु त्रिकालविषयं विशुद्धतरं चेति । किं चान्यत् । मतिज्ञानमिन्द्रियानिन्द्रियनिमित्तमात्मनो ज्ञस्वाभा' व्यापारिणामिकम् । श्रुतज्ञानं तु तत्पूर्व कमाप्तोपदेशाद्भवतीति ॥२०॥
द्विविधोऽवधिः ॥ २१ ॥ भवप्रत्ययः क्षयोपश मनिमित्तश्च ।।२१॥
भवप्रत्ययो नारकदेवानाम् ॥ २२ ॥ नारकाणां देवानां च यथास्वं भवप्रत्ययमवधिज्ञानं भवति । भवप्रत्ययं भवहेतुकं भवनिमित्तमित्यर्थः । तेषां हि भवोत्पत्तिरेव तस्य हेतुर्भवति पक्षिणामाकाशगमनवत्, न शिक्षा न तप इति ॥२२॥
यथोक्तनिमित्तः षड् विकल्पः शेषाणाम् ॥ २३ ॥ यथोक्तनिमित्तः क्षयोपशमनिमित्त इत्यर्थः । तदेतदवधिज्ञानं क्षयोपशमनिमित्तं षड्विधं भवति शेषाणाम् । शेषाणामिति नारकदेवेभ्यः शेषाणां । तिर्यग्योनिजानां मनुष्याणां च । अवधिज्ञानावरणीयस्य कर्मणः क्षयोपशमाभ्यां भवति षड्विधम् । तद्यथा- अनानुगामिकं, आनुगामिकं, हीयमानकं, वर्धमानकं, अनवस्थितं, अवस्थितमिति ।
तत्रानानुगामिकं यत्र क्षेत्रे स्थितस्योत्पन्नं ततः प्रच्युतस्य प्रतिपतति, *प्रश्नादेशपुरुषज्ञानवत् ॥ आनुगामिकं यत्र क्वचिदुत्पन्नं क्षेत्रान्तरगतस्यापि न
१ जानातीति ज्ञः । ज्ञत्वमेव स्वाभाव्यं ज्ञस्वाभाव्यमात्मरूपता । तस्मात् । २ सर्वकालवर्ति न कदाचित्संसारे पर्यटतद्भिरेतद् भ्रष्टं, यतो निगोदजीवानामपि
अक्षरस्यानन्तभागो नित्योद्घाट इत्यागमः । अतः पारिणामिकम् । (एकशरीरस्था अनन्ता
जीवा निगोदजीवाः ।) ३ मतिज्ञाने सति भवति, नासतीत्यर्थः । ४ भवः प्रत्ययो निमित्तकारणं यस्य स तथा । भवनिमित्तकं भवहेतुकं जन्मनः प्रभृति
जायमानमित्यर्थ । अ. १ सू. २२. ५ अयमेव गुणनिमित्त इत्यभिधीयते । ६ स्थानयोग्यतानतिक्रमेण । ७ यथा नैमित्तिकः कश्चिदादिशन् कस्मिं श्चिद् देवस्थाने शक्नोति संवादयितुं, न सर्वत्र ।
एवमेतदवधिज्ञानमपि यत्रोत्पन्नम्, तत्रैव गमकम्, नान्यत्र ।