SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ १.२० द्वैविध्यम् । यद्भगवद्भिः सर्वज्ञैः सर्वदर्शिभिः परमर्षिभिरर्हद्भिःतत्स्वाभाव्यात्परमशुभस्य च प्रवचनप्रतिष्ठापनफलस्य 'तीर्थकरनामकर्मणोऽनुभावादुक्तं भगवच्छिष्यैरतिशयवद्भिरुत्तमातिशयवाग्बुद्धिसंपन्नैर्गणधरैदृब्धं तदङ्गप्रविष्टम् । गणधरानन्तर्यादिभिस्त्वत्यन्तविशुद्धागमैः परमप्रकृष्टवाङ्मतिशक्तिभिराचायैः काल- “संहननायुर्दोिषादल्पशक्तीनां शिष्याणामनुग्रहाय यत्रोक्तं तदङ्गबाह्यमिति ॥ सर्वज्ञप्रणीतत्वादानन्त्याच्च ज्ञेयस्य, श्रुतज्ञानं मतिज्ञानान्महाविषयम् । तस्य च महाविषयत्वात्तांस्तानर्थानधिकृत्य प्रकरणसमाप्त्यपेक्षमङ्गोपाङ्ग नानात्वम् । किं चान्यत् । सुखग्रहणधारणविज्ञानापोहप्रयोगार्थं च । अन्यथा ह्यनिबद्धमङ्गोपाङ्गशः समुद्रप्रतरणवदुर ध्यवसेयं स्यात् । एतेन १०पूर्वाणि वस्तूनि प्राभृतानि प्राभृतप्राभृतानि अध्ययनान्युद्देशाश्च व्याख्याताः । अत्राह । मतिश्रुतयोस्तुल्यविषयत्वं "वक्ष्यति । द्रव्येष्वसर्वपर्यायेष्विति । तस्मादेकत्वमेवास्त्विति । अत्रोच्यते । उक्तमेतत् साम्प्रतकालविषयं मतिज्ञानं, १ अ. ६ सू. १२. २ आप्तागमानन्तरागमपरम्परागमभेदात्रिविधो ह्यागमः । आप्तागमो मूलपुरुषप्ररूपित उच्यते । अनन्तरागमस्तु द्वितीयपुरुषगृहीत उच्यते । अर्हतां द्वितीयपुरुषा गणधरा एव भवन्ति । परम्परापरिपाटी सा च तृतीयपुरुषादिषु ज्ञेया यथा गणधराणां द्वितीयपुरुषा गणधरशिष्याः स्यु | अर्हतां त्वेते परम्परागोचरास्तृतीयपुरुषा इत्यर्थः । ३ गणधरानन्तर्याः- गणधरशिष्यादयः । ४ कालदोषात्-कालस्य दुःषमाभिधानस्य स्वभावात्पुरुषा अल्पशक्तयो भवन्ति । ५ यनिमित्तकदृढतमादिभेदभिन्नास्थिबन्धनरूपविशेषो भवति तद्रूपत्वं संहननस्य लक्षणम् । ६ आयुर्जीवितं तदल्पम् । यः सर्वचिरं जीवेत्स वर्षशतमिति । ७ महाविषयं-अनेकार्थपरिच्छेदि । ८ तीर्थकरादिनामकर्मोदयवर्तितीर्थकरादिना प्रोक्तरूपत्वं, अङ्गाख्यश्रुतस्य लक्षणम् । तादृशाङ्गार्थानुवादित्वमुपाङ्गस्य लक्षणम् उपाङ्गानि द्वादश राजप्रश्नीयादीनि । ९ विज्ञानासमर्थमित्यर्थः । १० पूर्वाणि-उत्पादपूर्वादीनि (२-४९), वस्तूनि-तदंशाः, प्राभृतानि वस्त्वंशाः, प्राभृतप्राभृतानि-प्राभृतांशाः, अध्ययनानि-ततोऽल्पतराणि, उद्देशकाः- ततोऽल्पतराः । अ. २ सू. ४९. ११ अ. १ सू. २७
SR No.022503
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherRatnatrai Aradhak Sangh
Publication Year
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy