________________
१९
तत्त्वार्थाधिगमसूत्रम् 'सामायिकं चतुर्विंशतिस्तवो' वन्दनं प्रतिक्रमणं कायव्युत्सर्गः५ प्रत्याख्यानं दशवैकालिकं उत्तराध्यायाः दशाः १°कल्पव्यवहारौ "निशीथमृषि१२भाषितान्येवमादि । अङ्गप्रविष्टं द्वादशविधम् । तद्यथा । आचारः सूत्रकृतं स्थानं समवायः व्याख्याप्रज्ञप्तिः ज्ञातधर्मकथा उपासकाध्ययनदशाः अन्तकृद्दशाः अनुत्तरौपपातिकदशाः प्रश्नव्याकरणं विपाकसूत्रं दृष्टिपात इति ।
अत्राह । मतिज्ञानश्रुतज्ञानयोः कः प्रतिविशेष इति । अत्रोच्यते । उत्पन्न विनष्टार्थग्राहकं साम्प्रतकालविषयं मतिज्ञानम् । श्रुतज्ञानं तु त्रिकालविषयं उत्पन्नविनष्टानुत्पन्नार्थग्राहकम् ॥ .
__ अत्राह । गृह्णीमो मतिश्रुतयो नात्वम् । अथ श्रुतज्ञानस्य द्विविधमनेकद्वादशविधमिति "किंकृतः प्रतिविशेष इति । अत्रोच्यते । वक्तृविशेषाद्
१ समभावो यत्राध्ययने वर्ण्यते । २ चतुर्विशतीनां पूरणस्यारादुपकारिणो यत्र स्तवः शेषाणां च तीर्थकृतां स चतुर्विशतिस्तवः । ३ वन्दनं-गुणवतः प्रणामो यत्र वर्ण्यते तद्वन्दनम् । ४ असंयमस्थानं प्राप्तस्य तस्मात्, प्रतिनिवर्तनं यत्र वर्ण्यते । अ. ९ स. २२ ५ कृतस्य पापस्य यत्र स्थानमौनध्यानरूपकायत्यागेन विशुद्धिराख्यायते स कायव्युत्सर्गः । ६ स्वेच्छाप्रवृत्तिप्रतिकूलतया मर्यादया विवक्षितकालादिमानया आख्यानं प्रकथनं
प्रत्याख्यानम् । निवृत्तिद्वारेण प्रतिज्ञाकरणं । एतैः सामायिकादिभिरध्ययनैरावश्यकश्रुतस्कन्ध
उक्तः । ७ विकालेनापराह्णलक्षणेन निर्वृत्तं वैकालिकं दशाध्ययननिर्माणं च तद्वैकालिकं च
मध्यमपदलोपाद्दशवैकालिकम् । शय्यंभवसूरिकृतः स्वनामख्यातः श्रुतग्रन्थः । ८ आचारात्परतः पूर्वकाले यस्मादेतानि पठितवन्तो यतयस्तेनोत्तराध्ययनानि । ९ पूर्वेभ्य आनीय संघसंततिहिताय स्थापितान्यध्ययनानि दशा उच्यन्ते दशा इति
व्यवस्थावचनः शब्दः, काचिप्रतिविशिष्टावस्था यतीनां यासु वर्ण्यते ता दशा इति । १० आभवप्रायश्चित्तदानप्रायश्चित्तयोः कल्पनाभेदनाद्वयवहरणादानाच कल्पव्यवहारौ । ११ उभयविधप्रायश्चित्तज्ञापकताया उभयत्र पर्याप्तत्वाद् द्वित्वविश्रान्तपदाभिधानं
निशीथमप्रकाशं सूत्रार्थाभ्याम् । १२ ऋषिभाषितानि-प्रत्येकबुद्धादिप्रणीतानि (प्रत्येकबुद्धाः-प्रतीत्यैकं किञ्चिदषभादिकमनित्यतादि
भावनाकारणं वस्तु बुद्धाः बुद्धवन्तः परमार्थमिति) कापिलीयादीनि । १३ वर्तमानभूतभविष्यत्कालविषयम् । १४ किंकृतः केन कृतः। - - -