________________
१८
१.२० शेषैर्भवतीत्यर्थः । एवमेतन्मतिज्ञानं द्विविधं चतुर्विधं अष्टाविंशतिविधं अष्टषष्ट्युत्तरशतविधं षट्त्रिंशत्रिशतविधं च भवति ।।१९।।
॥ श्रुतं मतिपूर्वं व्यनेकद्वादशभेदम् ॥ २० ॥ श्रुतज्ञानं मतिज्ञानपूर्वकं भवति । 'श्रुतमाप्तवचनमागमः उपदेश ऐतिह्यमान्मायः प्रवचनं जिनवचनमित्यनर्थान्तरम् । तद्विविधम ङ्गबाह्यमङ्ग प्रविष्टं च । तत्पुनरनेकविधं द्वादशविधं च यथासङ्ख्यम् । अङ्गबाह्यमनेकविधम् । तद्यथा ।
१ द्विविधं इन्द्रियानिन्द्रियनिमित्तभेदात् । चतुर्विधमवग्रहहावायधारणाभेदतः ।
अष्टाविंशतिविधं स्पर्शनादीनां मनोऽन्तानां (स्पर्शनरसनघ्राणचक्षुःश्रोत्राणि मनश्च) षण्णां प्रत्येकमर्थावग्रहादिभिश्चतुर्भिश्चतुर्विशती भेदेषु नयनमनोवर्जानां चतुर्णा व्यञ्जनावग्रहरूपभेदचतुष्टयक्षेपात् । अष्टषष्ट्युत्तरशतविधं-तस्या एवाष्टाविंशतेरेकैकभेदस्य बह्वादिभेदेन षोढाभवनात् । षट्त्रिंशत्रिशतविधं तस्या एवाष्टाविंशतेर्बह्वादिभिः
सेतरैदिशधाभवनात् । २ तीर्थकरोपदिष्टत्वे सति बुद्ध्यतिशयवद्गणधरैरवधारितरूपत्वं श्रुतस्य लक्षणम् । ३ प्रकर्षेण नामादिभिर्नयप्रमाणनिर्देशादिभिश्च जीवादयोऽर्था उच्यन्तेऽनेन तत्प्रवचनम् ।
अंगानि आचारादीनि । तेभ्यो बाह्या अंगबाह्याः भित्रा अनङ्गप्रविष्टाः- चन्द्रप्रज्ञप्तिः सूर्यप्रज्ञप्तिः जम्बूद्वीपप्रज्ञप्तिः द्वीपसागरप्रज्ञप्तिः, (स्था. ४ ठा. सू. २७७) इत्यादयः अनेकविधाः । इह पुरुषस्य द्वादश अङ्गानि तद्यथा- द्वौ पादौ द्वे जो द्वे ऊरूणी द्वे गात्रार्धे द्वौ बाहू ग्रीवा शिरश्च । एवं श्रुतरूपस्यापि परमपुरुषस्याचारादीनि द्वादशाङ्गानि (१ आचाराङ्ग २ सूत्रकृतांङ्ग ३ स्थानांङ्ग ४ समवायांङ्ग ५ भगवती (विवाहप्रज्ञप्ति) ६ ज्ञाताधर्मकथाङ्गं ७ उपासकदशाङ्गं ८ अंतकृद्दशांङ्ग ९ अनुत्तरोपपातिकदशांङ्ग १० प्रश्नव्याकरणं ११ विपाकः १२ दृष्टिवादः) क्रमेण वेदितव्यानि । श्रुतपुरुषस्याङ्गेषु प्रविष्टमङ्गप्रविष्टम् । अङ्गभावेन व्यवस्थिताः श्रुतभेदाः । गणधरा गौतमस्वाम्यादयः मूलभूतमाचारादिकं श्रुतमुपरचयन्ति तेषामेव सर्वोत्कृष्टश्रुतलब्धिसंपन्नतया तद्रचयितुमीशत्वान शेषाणां, ततस्तत्कृतं सूत्रं मूलभूतमित्यङ्गप्रविष्टमुच्यते । यत्पुनः शेषैः श्रुतस्थविरैः भद्रबाहुस्वाम्यादिभिः तदेकदेशमुपजीव्य विरचितं तदनङ्गप्रविष्टम् । स्थविरास्तु भद्रबाहुस्वाम्यादयस्तदृब्धं श्रुतमावश्यकनियुक्त्यादिकमनङ्गप्रविष्टमङ्गबाह्यमुच्यते ।