________________
तत्त्वार्थाधिगमसूत्रम्
धारणा प्रतिपत्तिर्यथास्वं मत्यवस्थानमवधारणं च 1 धारणा प्रतिपत्तिरवधारणमवस्थानं निश्चयोऽवगमः अवबोध इत्यनर्थान्तरम् ||१५|| बहुबहुविधक्षिप्रानिश्रितानुक्तध्रुवाणां सेतराणाम् ॥१६॥
अवग्रहादयश्चत्वारो मतिज्ञानविभागा एषां बह्वादीनामर्थानां सेतराणां भवन्त्येकशः । सेतराणामिति सप्रतिपक्षाणामित्यर्थः । बह्ववगृह्णाति अल्पमवगृह्णाति । बहुविधमवगृह्णाति एकविधमवगृह्णाति । क्षिप्रमवगृह्णाति चिरेणावगृह्णाति । अनिश्रितमवगृह्णाति निश्रितमवगृह्णाति । अनुक्तमवगृह्णाति उक्तमवगृह्णाति । ध्रुवमवगृह्णाति अध्रुवमवगृह्णाति । ' इत्येवमीहादीनामपि विद्यात् ॥१६॥
१७
अर्थस्य ॥ १७ ॥
अवग्रहादयो मतिज्ञानविकल्पा 'अर्थस्य भवन्ति ॥ १७ ॥
व्यञ्जनस्यावग्रहः ॥ १८ ॥
'व्यञ्जनस्यावग्रह एव भवति नेहादयः । एवं द्विविधोऽवग्रहो व्यञ्जनस्यार्थस्य च । ईहादयस्त्वर्थस्यैव ॥ १८ ॥
न चक्षुरनिन्द्रियाभ्याम् ॥ १९ ॥
चक्षुषा ४ नोइन्द्रियेण च व्यञ्जनावग्रहो न " भवति । चतुर्भिरिन्द्रियैः क्षयोपशमोत्कर्षापकर्षादिवम् ईहादीनामपि ईहापायधारणानामपि जानीयाद् । बहवीह अल्पमीहते बहुविधमीहते एकविधमीहते क्षिप्रमीहते चिरेणेहते अनिश्रितमीह निश्रितमीहते उक्तमीहते अनुक्तमीहते । द्वितीयविकल्पे निश्चितमीहते सन्दिग्धमीहते ध्रुवमीहते अध्रुवमीहते । एवमपायेऽपि बह्वपैतीत्यादयो द्वादशविकल्पाः धारणायां च बहु धारयतीत्यादयो द्वादशैव, एवमवग्रहादीनां स्वस्थाने द्वादशविधम् ।
१ एवमित्यनेनैतत् कथयति-यथा विषयस्य बह्वादेर्भेदाद् द्वादशप्रकारोऽवग्रहोऽभिहितः । २ अर्थ: स्पर्शरसगन्धवर्णशब्दात्मकस्तस्य स्पर्शादिरर्थस्यावग्रहादयोऽवच्छेदका मतिज्ञानविकल्पाः- मतिज्ञानस्येन्द्रियादिभेदेनाविभक्तस्य विकल्पा अंशा इत्यर्थः ।
३ व्यज्यते प्रकटीक्रियतेऽर्थो येन दीपेनेव घटः, तद् व्यञ्जनम् । व्यञ्जनमुपकरणेन्द्रियस्पर्शाद्याकारपरिणतद्रव्यसंबन्धस्तस्यावग्रह एवैको भवति ।
तथा
४ नोइन्द्रियम्-मनः ।
५ चक्षुषा नोइन्द्रियेण च, मनओघज्ञानरूपेण च, सह ते रूपाकारपरिणताः पुद्गलाश्चिन्त्य - मानाश्च वस्तुविशेषाः संश्लेषं न यान्ति अतो व्यञ्जनं चक्षुरुपकरणेन्द्रियनोइन्द्रिययोर्न भवति ।