SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ प्रमाणानीति केचिन्मन्यन्ते । तत्कथमेतदिति । अत्रोच्यते । सर्वाण्येतानि मतिश्रुतयोरन्तर्भूतानीन्द्रियार्थसनिकर्षनिमित्तत्वात् । किं चान्यत् । अप्रामाणान्येव वा । कुतः । मिथ्यादर्शनपरिग्रहाद्विपरीतोपदेशाच्च । मिथ्यादृष्टेर्हि मतिश्रुतावधयो नियतमज्ञानमेवेति वक्ष्यते । नयवादान्तरेण तु यथा मतिश्रुतविकल्पजानि भवन्ति तथा पुरस्ताद्वक्ष्यामः ॥ १२ ॥ अत्राह - उक्तं भवता मत्यादीनि ज्ञानानि उद्दिश्य तानि विधानतो लक्षणतश्च पुरस्ताद् विस्तरेण वक्ष्याम इति । तदुच्यतामिति । अत्रोच्यते । मतिः स्मृतिः संज्ञा चिन्ताभिनिबोध इत्यनान्तरम् ॥१३॥ मतिज्ञानं, स्मृतिज्ञानं, संज्ञाज्ञानं, चिन्ताज्ञानं, आभिनिबोधिकज्ञानमित्यनर्थान्तरम् ।।१३।। ॥ तदिन्द्रियानिन्द्रियनिमित्तम् ॥१४॥ तदेतन्मतिज्ञानं द्विविधं भवति । इन्द्रियनिमित्तमनिन्द्रियनिमित्तं च । तत्रेन्द्रियनिमित्तं "स्पर्शनादीनां पञ्चानां स्पर्शादिषु पञ्चस्वेव स्वविषयेषु । अनिन्द्रियनिमित्तं मनोवृत्तिरोघज्ञानं च ॥१४॥ अव ग्रहहापायधारणाः ॥१५॥ तदेतन्मतिज्ञानमुभयनिमित्तमप्येकशश्चतुर्विधं भवति । तद्यथा । अवग्रह ईहा अपायो धारणा चेति । तत्राव्यक्तं यथास्वमिन्द्रियैर्विषयाणामालोचनावधारणमवग्रहः । अवग्रहो ग्रहणमालोचनमवधारणमित्यनान्तरम् ॥ अवगृहीते विषयार्थैकदेशाच्छेषानुगमनं निश्चयविशेषजिज्ञासा ईहा । ईहा ऊहा तर्कः परीक्षा विचारणा जिज्ञासेत्यनान्तरम् ॥ अवगृहीते विषये सम्यगसम्यगिति गुणदोषविचारणाध्यवसायापनोदोऽपायः । अपायोऽपगमः अपनोदः अपव्याधः अपेतमपगतमपविद्धमपनुत्तमित्यनान्तरम् ।। १ 'चार्वाकोऽध्यक्षमेकं सुगतकणभुजौ सानुमानं सशाब्दं । तद्वैतं पारमर्षः सहितमुपमया तत् त्रयं चाक्षपादः ।। अर्थापत्त्या प्रभाकृत् वदति स निखिलं मन्यते भट्ट एतत् । साभावं द्वे प्रमाणे जिनपतिसमये स्पष्टतोऽस्पष्टतश्च ॥१॥' अत्र सम्भवैतिह्यादिकं प्रमाणमधिकमिति पौराणिकाः । २ अ. १ सू. ३२ ३ अ. १ सू. ३५ भाष्ये । ४ अ. २ सू. २० । ५ प्रमाणमीमांसायाम् - १-१-२७+२८+२९+३०
SR No.022503
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherRatnatrai Aradhak Sangh
Publication Year
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy