________________
१५
तत्त्वार्थाधिगमसूत्रम्
___ मतिज्ञानं, श्रुतज्ञानं, अवधिज्ञानं, मनःपर्यायज्ञानं, केवलज्ञानमित्येतन्मूलविधानतः पञ्चविधं ज्ञानम् । प्रभेदास्त्वस्य पुरस्ताद्वक्ष्यन्ते ।।९॥
तत्प्रमाणे ॥ १०॥ तदेतत्पञ्चविधमपि ज्ञानं द्वे प्रमाणे भवतः परोक्षं प्रत्यक्षं च ॥१०॥
- आये परोक्षम् ॥११॥
आदौ भवमाद्यम् । आये सूत्रक्रमप्रामाण्यात् प्रथमद्वितीये शास्ति । तदेवमाद्ये मतिज्ञानश्रुतज्ञाने परोक्षं प्रमाणं भवतः । कुतः । निमित्तापेक्षत्वात्
अपायसद्र्व्यतया मतिज्ञानम् । 'तदिन्द्रियानिन्द्रियनिमित्तम्' इति वक्ष्यते ॥ तत्पूर्वकत्वात्परोपदेशजत्वाच्च श्रुतज्ञानम् ॥११॥
प्रत्यक्षमन्यत् ॥ १२ ॥ मतिश्रुताभ्यां यदन्यत् त्रिविधं ज्ञानं तप्रत्यक्षं प्रमाणं भवति । कुतः । अतीन्द्रियत्वात् । प्रमीयन्तेऽस्तैिरिति प्रमाणानि । अत्राह । इह अवधारितं द्वे एव प्रमाणे प्रत्यक्षपरोक्षे इति । अनुमानोपमानागमार्थापत्तिसम्भवाभावानपि च
ज्ञानदर्शन- (दर्शनं-दृश्यन्ते श्रद्धीयन्ते ज्ञायन्ते वा जीवादयः पदार्था अनेनास्मादस्मिन्वेति) चारित्र- (चारित्रं श्रामण्यम्) प्रभावतो निःशेषावरणप्रहाणादशेषज्ञानव्यवच्छेदेनैकरूपा अतिस्फुटा सर्ववस्तुपर्यायसाक्षात्कारिणी विज्ञप्तिरुल्लसति । तथा चोक्तम् “यथा जात्यस्य रलस्य निःशेषमलहानितः । स्फुटैकरूपाभिव्यक्तिर्विज्ञप्तिस्तद्वदात्मनः ॥१॥" ततो मत्यादिनिरपेक्ष केवलज्ञानं अथवा शुद्धं केवलं तदावरणमलकलङ्कस्य निःशेषतोऽपगमात्, सकलं वा केवलं प्रथमत एवाशेषतदावरणापगमतः सम्पूर्णोत्पत्तेः, असाधारणं वा केवलमनन्यसदृशत्वात् । अनन्तं वा केवलं ज्ञेयानन्तत्वात्, केवलं च तज्ज्ञानं च
केवलज्ञानम् ॥ १ अ. १ सू. १५, २०, २१, २४, अ. १० स. १. २ प्रमाणमीमांसायाम् १-१-१० ३ अपायः निश्चयः । सद्रव्यम् = सम्यक्त्वदलिकानि । सम्यग्दर्शनिनः क्षीणाक्षीण
दर्शनसप्तकस्य योऽवायो, मतिज्ञानं तत् परोक्षप्रमाणम् । ४ अ. १ सू. १४.