________________
१४
............. १.८
आमिनिबोधिकं च तद् ज्ञानं च आमिनिबोधिकज्ञानम् । इन्द्रियमनोनिमित्तो योग्यदेशावस्थितवस्तुविषयः स्फुटप्रतिभासो बोधविशेष इत्यर्थः । तथा श्रवणं श्रुतं वाच्यवाचकभावपुरस्सरीकारेण शब्दसंस्पृष्टार्थग्रहणे हेतुरुपलब्धिविशेषः, एवमाकारं वस्तु जलधारणाद्यर्थक्रियासमर्थं घटशब्दवाच्यमित्यादिरूपतया प्रधानीकृतत्रिकालसाधारणसमानपरिणामः शब्दार्थपर्यालोचनानुसारी इन्द्रियमनोनिमित्तोऽवगमविशेष इत्यर्थ । श्रुतं च तद् ज्ञानं च श्रुतज्ञानम् । तथा अवशब्दोऽधःशब्दार्थः, अव-अधोऽधो विस्तृतं वस्तु धीयते परिच्छिद्यतेऽनेनेत्यवधि, अथवा अवधिर्मर्यादा रूपिष्वेव द्रव्येषु परिच्छेदकतया प्रवृत्तिरूपा तदुपलक्षितं ज्ञानमप्यवधि । यद्वा अवधानम्-आत्मनोऽर्थसाक्षात्करणव्यापारोऽवधिः । अवधिश्चासौ ज्ञानं चावधिज्ञानम् । तथा परि सर्वतो भावे अवनं अवः "तुदादिभ्यो न कौ" इत्यधिकारे “अकतौ च" इत्यनेनौणादिकोऽकारप्रत्ययः, अवनं गमनं वेदनमिति पर्यायाः । परि अवः पर्यवः मनसि मनसो वा पर्यवः मनःपर्यवः सर्वतो मनोद्रव्यपरिच्छेद इत्यर्थः । अथवा मनःपर्यय इति पाठः । तत्र पर्ययणं पर्ययः । भावेऽल्प्रत्ययः । मनसि मनसो वा पर्ययो मनःपर्ययः । सर्वतस्तत्परिच्छेद इत्यर्थः । स चासौ ज्ञानं च मनःपर्ययज्ञानम् । अथवा मनःपर्यायज्ञानमिति पाठः । ततः मनांसि मनोद्रव्याणि पर्येति सर्वात्मना परिच्छिनत्ति मनःपर्यायं “कर्मणोऽण्" इति अण्प्रत्ययः । मनःपर्यायं च तज्ज्ञानं च मनःपर्यायज्ञानम् । यद्वा मनसः पर्यायाः मनःपर्यायाः, पर्याया भेदा धर्मा बाह्यवस्त्वालोचनप्रकारा इत्यर्थः । तेषु तेषां वा संबंधि ज्ञानं मनःपर्यायज्ञानम् । तथा केवलं एकमसहायं मत्यादिज्ञाननिरपेक्षत्वात् केवलज्ञानप्रादुर्भावे मत्यादीनामसम्भवात् । ननु कथमसम्भवो यावता मतिज्ञानादीनि स्वस्वावरणक्षयोपशमेऽपि प्रादुष्षन्ति । ततो निर्मूलस्वस्वावरणविलये तानि सुतरां भविष्यन्ति, चारित्रपरिणामवत् । उक्तं च "आवरणदेसविगमे जाइ वि जायन्ति मइसुयाईणि । आवरणसव्वविगमे कह ताइ न होति जीवस्स ? ||१॥ (छाया-आवरणदेशविगमे यान्यपि जायन्ते मतिश्रुतादीनि । सर्वावरणविगमे कथं तानि न भवन्ति जीवस्य ॥१॥) उच्यते, इह यथा जात्यस्य मरकतादिमणेमलोपदिग्धस्य यावन्नाद्यापि समूलमलापगमस्तावद्यथा यथा देशतो मलविलयः तथा तथा देशतोऽभिव्यक्तिरुपजायते, सा च क्वचित्कदाचित्कथंचित् भवतीत्यनेकप्रकारा, तथात्मनोऽपि सकलकालकलापावलम्बिनिखिलपदार्थपरिच्छेदकरणैकपारमार्थिकस्वरूपस्याप्यावरणमलपटलतिरोहितस्वरूपस्य यावत् नाद्यापि निखिलकर्ममलापगमः तावद्यथा यथा देशतः कर्ममलोच्छेदस्तथा तथा देशतः तस्य विज्ञप्तिरुज्जृम्भते सा च क्वचित्कदाचित्कथंचिदित्यनेकप्रकारा । उक्तं च "मलविद्धमणेर्व्यक्तिर्यथानेकप्रकारतः । कर्मविद्धात्मविज्ञप्तिस्तथाऽनेकप्रकारतः ॥१॥" सा चानेकप्रकारता मतिश्रुतादिभेदेनावसेया, ततो यथा मरकतादिमणेरशेषमलापगमसम्भवे समस्तास्पष्टदेशव्यक्तिव्यवच्छेदेन परिस्फुटरूपैकाभिव्यक्तिरुपजायते तद्वदात्मनोऽपि