________________
तत्त्वार्थाधिगमसूत्रम्
१३
अत्राह-सम्यग्दृष्टिसम्यग्दर्शनयोः कः प्रतिविशेष इति । उच्यते । अपायसद्द्रव्यतया सम्यग्दर्शनम् अपाय 'आभिनिबोधिकम् । तद्योगात्सम्यग्दर्शनम् । तत्केवलिनो नास्ति । तस्मान्न केवली सम्यग्दर्शनी, सम्यग्दृष्टिस्तु भवति ॥
कालः । सम्यग्दर्शनं कियन्तं कालमित्यत्रोच्यते । तदेकजीवेन नानाजीवैश्च परीक्ष्यम् । तद्यथा । एकजीवं प्रति जघन्येनान्तर्मुहूर्तं उत्कृष्टेन षट्षष्टिः सागरोपमानि साधिकानि । नानाजीवान् प्रति सर्वाद्धा || अन्तरम् । सम्यग्दर्शनस्य को विरहकालः । एकं जीवं प्रति जघन्येनान्तर्मुहूर्तं, उत्कृष्टेन उपार्धपुद्गलपरिवर्तः । नानाजीवान् प्रति नास्त्यन्तरम् ॥
४
भावः । सम्यग्दर्शनमौपशमिकादीनां भावानां कतमो भाव उच्यते । औदयिकपारिणामिकवर्जं त्रिषु भावेषु भवति ॥ अल्पबहुत्वम् । अत्राह सम्यग्दर्शनानां त्रिषु भावेषु वर्तमानानां किं तुल्यसंख्यत्वमाहोस्विदल्पबहुत्वमस्तीति । उच्यते । सर्वस्तोकमौपशमिकम् । ततः क्षायिकमसंख्येयगुणम् । ततोऽपि क्षायोपशमिकमसंख्येयगुणम् । सम्यग्दृष्टयस्त्वनन्तगुणा इति । एवं सर्वभावानां नामादिभिर्न्यासं कृत्वा प्रमाणादिभिरधिगमः कार्यः ॥ ८ ॥
उक्तं सम्यग्दर्शनम् । ज्ञानं वक्ष्यामः
-
मतिश्रुतावधिमनः पर्यायकेव 'लानि ज्ञानम् ॥ ९ ॥
दशमी लान्तकान्ते समाप्यते ||१२|| भवेदेकादशी पूर्णा सहस्रारान्तसीमनि । स्याद् द्वादशयच्युतस्यान्ते क्रमादेवं त्रयोदशी ॥ १३ ॥ भवेद् ग्रैवेयकस्यान्ते लोकान्ते च चतुर्दशी । घर्मोर्ध्वभागादूर्ध्वाधः सप्तसप्तेति रज्जवः || १४ ||' उपाध्याय श्रीविनयविजयकृतलोकप्रकाशे १२ सर्गे ।। १ एतल्लक्षणमग्रिमसूत्रे टिप्पन्यां द्रष्टव्यम् ।
२
सर्वाद्धा - सर्वकालः । अद्धा समयादिकालभेदः ।
३ सम्यग्दर्शनं प्राप्य पुनश्चज्झित्वा पुनर्यावन्न सम्यग्दर्शनमासादयति स विरहकालः । सम्यग्दर्शनेन शून्यः काल इत्यर्थः ।
४ पंचसंवत्सरप्रमाणं युगम् । असंख्येययुगमानं पल्योपमम् । पल्योपमदशकोटिकोटिघटितं सागरोपमम् । दशसागरोपमकोटिकोटयात्मिकोत्सर्पिणि, एवमवसर्पिण्यपि । अनन्ताभिरुत्सर्पिण्यवसर्पिणीभिः पुद्गलपरावर्तः तस्य अर्थः अर्धपुद्गलपरावर्तः । तत्समीपमित्यर्थः । ५ औपशमिकक्षायोपशमिकक्षायिकेषु ।
६ अर्थाभिमुखो नियतः - प्रतिनियतस्वरूपो बोधो बोधविशेषोऽभिनिबोधः, अभिनिबोध एवाभिनिबोधिकं, अभिनिबोधशब्दस्य विनयादिपाठाभ्युपगमात् 'विनयादिभ्य' इत्यनेन स्वार्थे इकण् प्रत्ययः । " अतिवर्तन्ते स्वार्थे प्रत्ययकाः प्रकृतिलिङ्गवचनानि” इति वचनादत्र नपुंसकता । यथा विनय एव वैनयिकमित्यत्र । अथवा अभिनिबुध्यते अनेनास्मादस्मिन् वेति अभिनिबोधः- तदावरणकर्मक्षयोपशमः तेन निर्वृत्तमाभिनिबोधिकं