SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ १२ . - १.८ 'गतीन्द्रियकाय योगकषायवेद लेश्या सम्यक्त्वज्ञानदर्शनचारित्राहारोपयोगेषु त्रयोदशस्वनुयोगद्वारेषु यथासम्भवं सद्भूतप्ररूपणा कर्तव्या ॥ संख्या । कियत्सम्यग्दर्शनं किं संख्येयमसंख्येयमनन्तमिति । उच्यते । असंख्येयानि सम्यग्दर्शनानि, सम्यग्दृष्टयस्त्वनन्ताः ॥ क्षेत्रम् । सम्यग्दर्शनं कियति क्षेत्रे । लोकस्या संख्येयभागे ॥ स्पर्शनम् । सम्यग्दर्शनेन किं स्पृष्टम् । लोकस्यासंख्येयभागः । सम्यग्द्रष्टिना तु सर्वलोक इति ॥ १ गतिनामकर्मोदयात् विवक्षितभवाद्भवान्तरगमनयोग्यत्वं गतेर्लक्षणम् । २ अङ्गोपाङ्गकर्मनिर्माणनामकर्मोदयात्प्राप्यानि त्वगादीनीन्द्रियाणि । ३ पुद्गलघटितत्वे सत्यात्मनो निवासरूपत्वं कायस्य लक्षणम् । ४ कलुषयन्ति शुद्धस्वभावं सन्तं कर्म मलिनं कुर्वन्ति जीवमिति कषायाः । ५ यद्वशाधत्पारतन्त्र्यादभिलाषो वाञ्छा भवति-जायते । ते त्रिविधाः स्त्रीवेदः पुंवेदः नपुंसकवेदः । तत्र स्त्रियाः पुंस्यभिलाषः स्त्रीवेदः, पुंसः स्त्रियामभिलाषः पुंवेदः, उभयोरप्यभिलाषो नपंसकवेदः । लिश्यते श्लिष्यते कर्मणा सह आत्मा अनयेति लेश्या, अध्यवसायः । मनोयोगपरिणामजन्यत्वं लेश्याया लक्षणम् । तत्त्वार्थश्रद्धानम् । ८ चतुर्दशरज्जुप्रमाणावगाहो लोको भवति । इह रज्जुर्द्विधा । औपचारिकः पारमार्थिकश्च । तत्र लोकानां बुद्धिस्थैर्याय दृष्टान्तप्रायः प्रथमः, स च यथा-'जोयणलख्खपमाणं निमेसमित्तेण जाइ जो देवो । ता छम्मासे गमणं एवं रज्जु जिणा बिंति' । (छायायोजनलक्षप्रमाणं निमेषमात्रेण याति यो देवः । तत्षण्मासे गमनमेवं रज्जु ज्ञापयन्ति ।) इति । द्वितीयस्तु सर्वासंख्यातद्वीपसमुद्रयोजनप्रमाणः । 'केवलद्वीपपयोधिपर्यन्तवर्तिनः स्वयंभूरमणाभिधानजलनिधेः परतटवर्तिपूर्ववेदिकान्तादारभ्य यावत्तस्यैव तोयधेरपरवेदिकान्त एतावत्प्रमाणा रज्जुरवगन्तव्या अधस्तादधोभागोऽधोमुखमल्लकतुल्योऽधोमुखीकृतशरावसदृक्षाकार उपरि पुनः संपुटस्थितयोर्मल्लकयोः शरावयोराकारमनुसरति लोकः । अयमर्थः । प्रथमं तावदेकं शरावमधोमुखमवस्थाप्यते ततस्तस्योपरि द्वितीयमुपरिमुखं तस्याप्युपरि तृतीयमधोमुखमित्येवं व्यवस्थितशरावत्रयसदृशाकारः सकलोऽपि लोको भवतीति । स च पञ्चास्तिकायमयो धर्माधर्माकाशजीवपुद्गललक्षणैः पञ्चभिरस्तिकायैर्व्याप्तः' । (प्रवचनसारोद्धारटीकायां सिद्धसेनसूरिशेखरकृतायां द्वारं १४३. 1) अस्य सर्वस्य लोकस्य कल्प्या भागाश्चतुर्दश । एकैकस्य विभागोऽयमेकैकरज्जुसंमितः ॥८॥ सर्वाधस्तनलोकान्तादारभ्योपरिगं तलम् । यावत्सप्तममेदिन्या एका रज्जरियं भवेत् ।।९।। प्रत्येकमेवं सप्तानां भुवामुपरि वर्तिषु । तलेषु रज्जुरेकैका स्युरेवं सप्त रज्जवः ।।१०।। रत्नप्रभोपरितलात् आरभ्यादिमताविषे । पर्याप्तेषु विमानेषु स्यादेषा रज्जुरष्टमी ।।११।। तत आरभ्य नवमी महेन्द्रान्ते प्रकीर्तिता । अतः परं तु
SR No.022503
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherRatnatrai Aradhak Sangh
Publication Year
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy