________________
तत्त्वार्थाधिगमसूत्रम्
.
सादिसपर्यवसानमेव च सम्यग्दर्शनम् । 'तज्जघन्येनान्तर्मुहूर्त, उत्कृष्टेन षट्षष्टिः 'सागरोपमानि साधिकानि । सम्यग्दृष्टिः सादिरपर्यवसाना । "सयोगः शैलेशीप्राप्तश्च "केवली सिद्धश्चेति ॥ विधानम् । हेतुत्रैविध्यात् क्षयादित्रिविधं' सम्यग्दर्शनम् । तदावरणीयस्य कर्मणो दर्शनमोहस्य च क्षयादिभ्यः । तद्यथा । क्षयसम्यग्दर्शनं, उपशमसम्यग्दर्शनं, क्षयोपशमसम्यग्दर्शनमिति । अत्र चौपशमिकक्षायोपशमिकक्षायिकाणां परतः परतो विशुद्धिप्रकर्षः ॥ ७ ॥ किं चान्यत्
सत्संख्याक्षेत्रस्पर्शनकालान्तरभावाल्पबहुत्वैश्च ॥ ८ ॥ सत्, संख्या, क्षेत्रं, स्पर्शनं, कालः, अन्तरं, भावः, अल्पबहुत्वमित्येतैश्च सद्भूतपदप्ररूपणादिभिरष्टाभिरनुयोगद्वारैः सर्वभावानां विकल्पशो विस्तराधिगमो भवति । कथमिति चेदुच्यते, सत् सम्यग्दर्शनं किमस्ति नास्तीति । अस्तीत्युच्यते । कास्तीति चेदुच्यते । अजीवेषु तावन्नास्ति । जीवेषु तु भाज्यम् । तद्यथा ।
१ जघन्येन – न्यूनन्यूनतया २ मुहूर्तो घटिकाद्वयात्मकः कालः । तत्र प्रथमक्षणमारभ्यान्तिमक्षणपर्यन्तमन्तर्मुहूर्तमिति
कथ्यते । क्षण एव जैनमते समयपदेनाभिधीयते । ३ उत्कृष्टेन-अधिकाधिकतया । (४-३९) ४ एतत्परिगणनमग्रे ४।१५ सूत्रे भाष्ये द्रष्टव्यम् । ५ 'कायवाङ्मनः कर्म योगः' ॥ ६।१ ।। इति योगेन सहितः । ६ शैलेशी-शैलस्येव मेरोरिव अचलता स्थिरता अस्यामवस्थायां सा शैलेशी । अथवा शीलं
समाधानं तच्च निश्चयतः प्रकर्षप्राप्तसमाधानरूपत्वात् सर्वसंवरः । ततस्तस्य
सर्वसंवररूपस्य शीलस्येशः शीलेशः तस्येयमवस्था शैलेशीति । ७ केवलज्ञानमस्यास्तीति केवली । केवलज्ञानलक्षणम्-सामग्रीविशेषतः
समुद्भूतसमस्तावरणक्षयापेक्षं निखिलद्रव्यपर्यायसाक्षात्कारिस्वरूपं केवलज्ञानम् । प्र. न. लो. परि. २ सू. २३. क्षयसम्यग्दर्शनं उपशमसम्यग्दर्शनं क्षयोपशमसम्यग्दर्शनमिति । मत्याद्यावरणीय - (८-७) दर्शनमोहसप्तकक्षयादुपजातं क्षयसम्यग्दर्शनमभिधीयते । तेषामेवोपशमाजातं उपशमसम्यग्दर्शनमुच्यते । तेषामेव क्षयोपशमाभ्यां जातं क्षयोपशमसम्यग्दर्शनमिति ।