________________
१०
१.७
उभयसंयोगेन जीवस्य नोजीवस्य जीवयोरजीक्योर्जीचानामजीवानामिति विकल्पा न सन्ति । शेषाः सन्ति ।। साधनम् । सम्यग्दर्शनं केन भवति । निसर्गादधिगमाद्वा भवतीत्युक्तम् । तत्र निसर्गः पूर्वोक्तः । अधिगमस्तु सम्यग्व्यायामः । उभयमपि तदावरणीयस्य कर्मणः क्षयेणोपशमेन क्षयोपशमाभ्यामिति ॥ अधिकरणं त्रिविधमात्मसन्निधानेन परसन्निधानेनोभयसन्निधानेनेति वाच्यम् । आत्मसन्निधानमभ्यन्तरसन्निधानमित्यर्थः । परसन्निधानं बाह्यसन्निधानमित्यर्थः । उभयसन्निधानं बाह्याभ्यन्तरसन्निधानमित्यर्थः । कस्मिन्सम्यग्दर्शनम्-आससन्निधाने परसन्निधाने उभयसन्निधाने इति । आत्मसन्निधाने तावत् जीवे सम्यग्दर्शनं, जीवे ज्ञानं, जीवे चारित्रमित्येतदादि । बाह्यसन्निधाने जीवे सम्यग्दर्शनं नोजीवे सम्यग्दर्शनमिति यथोक्ता विकल्पाः । उभयसन्निधाने चाप्यभूताः सद्भूताश्च यथोक्ता भङ्गविकल्पा इति ॥ स्थितिः । सम्यग्दर्शनं कियन्तं कालम् । सम्यग्दृष्टिर्द्विविधा । सादिः सपर्यवसाना, सादिरपर्यवसाना च ।
द्वयोरर्ह प्रतिमयोः । बहूनां साध्वादीनां निमित्तभूतानामपेक्षया जीवानामिति भङ्गः । एवं बहूनामर्ह प्रतिमानाम् । सर्वेष्वपि एतेषु प्राप्तसम्यक्त्वो जीवो नापेक्ष्यते परसंयोगस्यैवाधिकारविवक्षणात् । उत्तरसंयोगे आत्मपरसंयोगचिन्ता कार्या । तत्र जीवस्य अजीवस्य इत्येतौ भङ्गौ न स्तः । एकाकिनोह्युभयसंयोगानौचित्यात् । अथान्ये भङ्गास्तु सम्भवन्त्विति न वाच्यम् । यस्माजीवयोरित्यत्र न हि सम्यक्त्वयुक्तस्य ग्रहणे द्वयोः कयोश्चिनिमित्तभूतयोरेव ग्रहः क्रियते, तौ च परसंयोगा विश्रुतावतस्त्याज्यो जीययोरिति तृतीयो भङ्गः । एवमजीवयोर्निमित्तभूतयोः । जीवानां निमित्तभूतानां, अजीवानां निमित्तभूतानामिति षडपि नादरणीयाः, आत्मसंयोगं विना उभयसंयोगानुत्पत्तेः । अथ षडेव च भङ्गाः शेषा आदरणीयाः । ते त्विमे- जीवस्य जीवस्य, जीवस्य अजीवस्य,
जीवस्य जीवयोः, जीवस्य अजीवयोः, जीवस्य जीवानां, जीवस्य अजीवानां इति । १ अ. १ सू. ३ / २ गुर्वादिसमीपाध्यासिनः शुभा या क्रिया सम्यग्दर्शनोत्पादशक्ता सा सम्यग्व्यायाम इत्युच्यते । ३ एतच्च प्रायः स्वामिद्वारवत् व्याख्येयम् । तत्र 'यदात्मसंयोगेन' इत्याधुक्तं
तत्स्थानेऽत्रात्मसंनिधानेनेत्यादि वाच्यम् । ४ एकापायसव्व्यवर्तिनी । अपरा तु अशुद्धदलिकरूपसद्व्यापगमे क्षीणदर्शनमोहानां
श्रेणिकादीनाम् । द्विविधापीयं सादि सपर्यवसाना । उत्पत्तिकाले आदिमत्त्वात् । आद्याया मिथ्यात्वपुओदये द्वितीयायाश्च केवलज्ञानोत्पत्तौ मतिज्ञानतृतीयांशापायापगमेनापगमात् ।