________________
तत्त्वार्थाधिगमसूत्रम् 'भू प्राप्तावात्मनेपदी । तदेवं प्राप्यन्ते प्राप्नुवन्ति वा द्रव्याणि । एवं सर्वेषामनादीनामादिमतां च जीवादीनां भावानां मोक्षान्तानां तत्त्वाधिगमार्थं न्यासः कार्य इति ॥५॥
प्रमाणनयैरधिगमः ॥६॥ एषां च जीवादीनां तत्त्वानां यथोद्दिष्टानां नामादिभिय॑स्तानां प्रमाणनयैर्विस्तराधिगमो भवति ।। तत्र प्रमाणं द्विविधम् । ‘परोक्षं प्रत्यक्षं च' "वक्ष्यते । चतुर्विधमित्येके नयवादान्तरेण । नयाश्च नैगमादयो वक्ष्यन्ते ।। ६ । किं चान्यत्
निर्देशस्वामित्वसाधनाधिकरणस्थितिविधानतः ॥ ७ ॥ एभिश्च निर्देशादिभिः षड्भिरनुयोगद्वारैः सर्वेषां भावानां जीवादीनां तत्त्वानां विकल्पशो विस्तरेणाधिगमो भवति ॥ तद्यथा ॥ निर्देशः । को जीवः ।
औपशमिकादिभावयुक्तो द्रव्यं जीवः । ___सम्यग्दर्शनपरीक्षायाम् । किं सम्यग्दर्शनं द्रव्यम् । सम्यग्दृष्टिजीवोऽरूपी 'नोस्कन्धो नोग्रामः ॥ स्वामित्वम् । कस्य सम्यग्दर्शनमित्येतदात्मसंयोगेन परसंयोगेनोभयसंयोगेन चेति वाच्यम् । आत्मसंयोगेन जीवस्य सम्यग्दर्शनम् । परसंयोगेन जीवस्याजीवस्य जीवयोरजीवयोर्जीवानामजीवानामिति विकल्पाः । १ पाणिनिधा. पा. चुरादिगणे । २ प्रमाणनयतत्त्वालोकालङ्कारे प. १ सू. १-२ । तत्त्वार्थ. १-३५ ३ अ. १ सू. ३५ ४ अधिगमः-ज्ञानम् । ५ अ. १ सू. १० भाष्यम् । ६ 'प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानि' इति गौतमसूत्रे. १-१-३ ७ अ. १ सू ३४ । ८ अरूपी-अविद्यमानं रूपमस्येत्यरूपी । नासौ रूपादिधर्मसमन्वितः किन्त्वमूर्त आत्मेति । ९ पञ्चास्तिकाय- (५-१, ५-२) समुदितिः स्कन्धः । नोशब्दस्य तद्देशत्वान्नोस्कन्धः सम्यग्दृष्टिः ।
एवं नोग्रामोऽपि वक्तव्यः । स्कन्धः - अ. ५ सू. २५.. १० यदा एकं साध्यादिकं जीवं प्रतीत्य सम्यक्त्वमुत्पद्यते तदा निमित्तापेक्षया जीवस्यैव । इह
यस्य सम्यग्दर्शनमागतं स जीवो न विवक्षितः । एवं अर्हत्प्रतिमापेक्षयाऽजीवस्य । द्वयोः साध्वादीनामन्यतमजीवयोर्निमित्तयोरेवापेक्षया जीवयोरिति भङ्गः । एवं