________________
१.५
'उपयोगलक्षणाः संसारिणो मुक्ताश्च-द्विविधा वक्ष्यन्ते । एवमजीवादिषु सर्वेष्वनुगन्तव्यम् ।
पर्यायान्तरेणापि नामद्रव्यं, स्थापनाद्रव्यं, द्रव्यद्रव्यं, भावतो द्रव्यमिति । यस्य जीवस्याजीवस्य वा नाम क्रियते द्रव्यमिति तत्रामद्रव्यम् । यत्काष्ठपुस्तचित्रकर्माक्षनिक्षेपादिषु स्थाप्यते द्रव्यमिति तत् स्थापनाद्रव्यम् । देवताप्रतिकृतिवदिन्द्रो, रुद्रः, स्कन्दो, विष्णुरिति । द्रव्यद्रव्यं नाम गुणपर्यायवियुक्तं प्रज्ञास्थापितं धर्मादीनामन्यतमत् । केचिदप्याहुः ‘यद् द्रव्यतो द्रव्यं भवति तच्च पुद्गलद्रव्यमेवेति प्रत्येतव्यम् । 'अणवः स्कन्धाश्च' 'सङ्घातभेदेभ्य उत्पद्यन्ते' इति वक्ष्यामः६ । भावतो-द्रव्याणि धर्मादीनि सगुणपर्यायाणि प्राप्तिलक्षणानि वक्ष्यन्ते । आगमतश्च प्राभृतज्ञो द्रव्यमिति भव्यमाह । 'द्रव्यं च भव्ये' । भव्यमिति प्राप्यमाह । १ ज्ञानदर्शनयोः सम्यक् स्वविषयकसीमानुल्लङ्घनेन धारणरूपत्वम्, बाह्याभ्यन्तरनिमितकत्वे
सति आत्मनो यथायोगं चैतन्यानुकारिपरिणामविशेषरूपत्वं वा उपयोगस्य लक्षणम् । २ अ. २ सू. १० ३ अजीव इति नाम यस्य क्रियते स नामाजीवः । स्थापनाजीवः काष्ठादिन्यस्तः,
धर्मास्तिकायादेरपि (५-१) स्थापना स्मारकलिप्याकारेणाभिप्रायिकी भवत्येव । द्रव्याजीवो गुणादिवियुतो बुद्धिस्थापितः । भावाजीवो गत्याधुपग्रहकारी धर्मादिः (५- १७, ५-१८, ५-१९) । २ द्रव्यास्रव आत्मसमवेताः पुद्गलाः अनुदिता रागादिपरिणामेन । भावास्रवस्तु त एवोदिताः । ३ द्रव्यबन्धो निगडादिः । भावबन्धः प्रकृत्यादिः । ४ द्रव्यसंवरोऽपिधानम्, भावसंवरो गुप्त्यादिपरिणामापनो (७-६) जीवः । ५ द्रव्यनिर्जरा
मोक्षाधिकारशून्या ब्रीह्यादीनां, भावनिर्जरा कर्मपरिशाटः सम्यग्ज्ञानाधुपदेशानुष्ठानपूर्वकः । ४ प्रधानशब्दस्य तदर्थशब्दान्तराणि पर्यायः । पर्यायादन्यः पर्यायः पर्यायान्तरम्, तेनाप्यस्य
चतुष्टयस्य न्यासः कार्यः । ५ अ. ५ सू. २५ ६ अ. ५ सू. २६ ७ अ. ५ सू. ३७ ८ 'प्राभतज्ञ' इति आगमे पूर्वाख्ये (२-४१) कथ्यमाने 'प्राभृतज्ञ' इति शब्दप्राभृतं, तच्च
पूर्वेऽस्ति, यत इदं व्याकरणमायातं, तत् शब्दप्राभृतं यो जानाति स प्राभृतज्ञो गुरुरेवं
ब्रवीति, न चैवमहमेव वच्मि इति भावः, आगमत इत्यस्य पदस्य । ९ पाणिनिव्या. ५-३-१०४ ।