________________
तत्त्वार्थाधिगमसूत्रम्
'जीवाजीवास्रवबन्धसंवरनिर्जरामोक्षास्तत्त्वम् ॥४॥ जीवा अजीवा. आस्रवा बन्धः संवरो निर्जरा मोक्ष इत्येष सप्तविधोऽर्थस्तत्त्वम् । एते वा सप्त पदार्थास्तत्त्वानि । तान् लक्षणतो विधानतश्च पुरस्ताद्विस्तरेणोपदेक्ष्यामः ।
नामस्थापनाद्रव्यभावतस्तन्न्यासः ॥५॥ एभिर्नामादिभिश्चतुर्भिरनु योगद्वारैस्तेषां जीवादीनां तत्त्वानां न्यासो भवति । विस्तरेण लक्षणतो विधानतश्चाधिगमार्थं न्यासो निक्षेप इत्यर्थः । तद्यथा-नामजीवः स्थापनाजीवो द्रव्यजीवो भावजीव इति । नाम, संज्ञाकर्म इत्यनन्तरम् । चेतनावतोऽचेतनस्य वा द्रव्यस्य जीव इति नाम क्रियते स नाम जीवः ॥ यः काष्ठपुस्तचित्रकर्माक्षनिक्षेपादिषु स्थाप्यते जीव इति स स्थापनाजीवो देवताप्रतिकृतिवदिन्द्रो, रुद्रः, स्कन्दो, विष्णुरिति ।। द्रव्यजीव इति गुणपर्यायवियुक्तः प्रज्ञास्थापितोऽनादिपारिणामि कभावयुक्तो जीव उच्यते । अथवा शून्योऽयं भङ्गः । यस्य ह्यजीवस्य सतो "भव्यं जीवत्वं स्यात् स द्रव्यजीवः स्यात् । अनिष्टं चैतत् ।। भावतो जीवा औपशमिकक्षा यिक क्षायोपशमिकौदयिकपारिणा मिकभावयुक्ता
१ जीवः (२-८), अजीवस्तद्विपरीतः (अ.५), आस्रव;-आत्मधर्मत्वे सति
कर्मबन्धासाधारणकारणम् (६-१, ६-२), बन्धः-अभिनवकर्मग्रहणम्, अभिनवपदेन संक्रमव्यवच्छेदः (८-२ ८-३), संवरः- आश्रवविपरीतः, विपाकात्तपसा वा कर्मपरिशाटो कर्मात्मसंयोगध्वंसः निर्जरा (९-३), मोक्षः कृत्स्नकर्मक्षयलक्षणः (१०-३) आत्मनः
स्वभावसमवस्थानम् । २ अणु सूत्रं महानर्थस्ततः महतोऽर्थस्याणुना सूत्रेण योगोऽनुयोगः । निजेनाभिधेयेन
सार्धमनुरूपः सम्बन्धः । ३ जीवादीनां स्वरूपानुभवं प्रत्यभिमुखीभावरूपत्वं पारिणामिकस्य लक्षणम् । ४ द्रव्यजीवविकल्पोऽयं भङ्गो न सम्भवति । मृत्पिण्डो द्रव्यघट इत्यादी भावकारणतायामेव
द्रव्यपदप्रवृत्तिनिमित्तत्वदर्शनात् । उक्तप्रकारेण प्रयोगाभावात्तत्र निषिद्धलक्षणापत्तेः । ५ भव्यत्वं सिद्धिगमनयोग्यत्वम् । ६ प्रदेशविपाके द्विविधकर्मोदयनिरोधः-उपशमः । तज्जन्यो भाव औपशमिकः। ७ कर्मणां सर्वथा क्षये सति प्रादुर्भवन् क्षायिको भावः । ८ क्षयोपशमाभ्यां पूर्वोक्ताभ्यां जायमानः क्षायोपशमिकः । ९ कर्मोदयाजायमानः पर्याय औदयिको भावः । १० परिणमनं परिणामो जीवत्वाद्याकारेण यद्भवनं स पारिणामिकः ।