________________
१.३
निसर्गादधिगमाद्वोत्पद्यत इति द्विहेतुकं द्विविधम् । निसर्गः परिणामः स्वभावः अपरोपदेश इत्यनान्तरम्' । ज्ञानदर्शनोपयोगलक्षणो जीव इति वक्ष्यते । तस्यानादौ संसारे परिभ्रमतः कर्मतं एव कर्मणः स्वकृतस्य बन्धनिकाचनोदयनिर्जरापेक्षं नारकतिर्यग्योनि मनुष्यामरभवग्रहणेषु विविधं पुण्यपापफलमनुभवतो ज्ञानदर्शनपयोगस्वाभाव्यात्५ तानि तानि परिणामाध्यवसायस्थानान्तराणि गच्छतोऽनादिमिथ्यादृष्टेरपि सतः परिणामविशेषादपूर्वकरणं तादृग्भवति येनास्यानुपदेशात्सम्यग्दर्शनमुत्पद्यत इत्येतन्निसर्गसम्यग्दर्शनम् । अधिगमः अभिगम आगमो निमित्तं श्रवणं शिक्षा उपदेश इत्यनर्थान्तरम् । तदेवं परोपदेशाद्यत्तत्वार्थश्रद्धानं भवति तदधिगमसम्यग्दर्शनमिति ॥३॥
अत्राह तत्त्वार्थश्रद्धानं सम्यग्दर्शनमित्युक्तम्, तत्र किं तत्त्वमिति । अत्रोच्यते
१ अनर्थान्तरम्-पर्यायः । २ अ. २ सू. १, २, ३, ४, ५, ६, ७, ८. ___ बन्धो (अ. ८ सू. ३) नाम एकक्षेत्रावस्थितानां कर्मयोग्यस्कन्धानां (स्कन्दन्ति शुष्यन्ति
क्षीयन्ते पुष्यन्ते च पुद्गलानां चटनेन विचटनेन चेति स्कन्धाः) रागद्वेषस्नेहावलीढसकलात्मप्रदेशेष्वाहारपुद्गलानामिव (पूरणगलनधर्माणः पुद्गलाः) परिणामकः सम्बन्धः । निकाचना तु स्पृष्टानन्तरभाविनी बद्धस्य कर्मणः सकलकरणायोग्यतावस्था । बद्धं नाम कर्मात्मप्रदेशैः सह श्लिष्टं, यथा सूचयः कलापीकृताः परस्परेण बद्धाः कथ्यन्ते । ता एवाग्नौ प्रक्षिप्तास्ताडिताः समभिव्यज्यमानान्तराः स्पृष्टा इति व्यपदिश्यन्ते । ता एव पुनः प्रताप्य यदा घनेन ताडिताः प्रणष्टस्वविभागा एकपिण्डतामितास्तदा निकाचिता इति व्यपदेशमश्नुवते । एवं कर्माप्यात्मप्रदेशेषु योजनीयम् । तस्यैवं निकाचितस्य प्रकृत्यादि-(८-४)बन्धरूपेणावस्थितस्योदयावलिकाप्रविष्टस्य (आवलिका-असंख्येयसमयसंघातात्मकः कालविशेषः । तासु श्रेणिषु प्रविष्टा व्यवस्थिता) प्रतिक्षणं यो विपाकानुभवः स उदयः । उदयानुभवसमनन्तरमेवापेतस्नेहलेशं प्रतिसमयं परिशटत् कर्म निर्जराव्यपदेशमङ्गीकरोति ।
उत्पत्तिस्थानम् । ५ यदा यदोपयुक्ते तदा तदा साकारानाकारोवयोगबलाचेतयते तेनास्यानुभव इत्यर्थः । ६. अपूर्वकरणम् अप्राप्तपूर्वं तादृशमध्यवसायान्तरं जीवेनेत्यपूर्वकरणमुच्यते । किंच भव्यजीवो
येन परिणामेन रागद्वेषरूपां दुर्भेद्यग्रन्थि लययति स परिणामः शास्त्रेऽपूर्वकरणमुच्यते । अयं परिणामः कदाचिदेव लभ्यतेऽतस्तस्यापूर्वकरणमिति संज्ञा ।