________________
अथ प्रथमोऽध्यायः ।
सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः ॥ १ ॥ सम्यग्दर्शनं सम्यग्ज्ञानं सम्यक्चारित्रमित्येष त्रिविधो मोक्षमार्गः । तं पुरस्ताल्लक्षणतो विधानतश्च विस्तरेणोपदेक्ष्यामः । शास्त्रानुपूर्वीविन्यासार्थं 'तूद्देशमात्रमिदमुच्यते । एतानि च समस्तानि मोक्षसाधनानि । एकतराभावेऽप्यसाधनानीत्यतस्त्रयाणां ग्रहणम् । एषां च पूर्वस्य लाभे भजनीयमुत्तरम् । उत्तरलाभे तु नियतः पूर्वलाभः । तत्र सम्यगिति प्रशंसार्थो निपातः, समञ्चतेर्वा भावः दर्शनमिति दृशेरव्यभिचारिणी सर्वेन्द्रियानिन्द्रियार्थप्राप्तिरेतत्सम्यग्दर्शनम् । प्रशस्तं दर्शनं सम्यग्दर्शनम् । संगतं वा दर्शनं सम्यग्दर्शनम् । एवं ज्ञानचारित्रयोरपि ॥१॥
तत्त्वार्थश्रद्धानं सम्यग्दर्शनम् ॥ २ ॥ तत्त्वानामर्थानां श्रद्धानं, तत्त्वेन वार्थानां श्रद्धानं तत्त्वार्थश्रद्धानम्, तत् सम्यग्दर्शनम् । तत्त्वेन भावतो निश्चितमित्यर्थः । तत्त्वानि जीवादीनि वक्ष्यन्ते । त एव चास्तेिषां श्रद्धानं तेषु प्रत्ययावधारणम् । तदेवं प्रशमसंवेगनिर्वेदानुकम्पास्तिक्याभिव्यक्तिलक्षणं तत्त्वार्थश्रद्धानं सम्यग्दर्शनमिति ॥२॥
तनिसर्गादधिगमादा ॥ ३ ॥ तदेतत्सम्यग्दर्शनं द्विविधं भवति । 'निसर्गसम्यग्दर्शनमधिगमसम्यग्दर्शनं च ।
१ वस्तुमात्रसंकीर्तनमुद्देशः । २ सम्यग्ज्ञानशब्देऽपि सम्यक् शब्दः प्रशंसार्थो निपातः, समञ्चतेर्वा, ज्ञानमिति च भाव एव,
एवं चारित्रमपि । ३ अ. १ सू. ४. ४ प्रशमः . सुपरीक्षितप्रवक्तृप्रवाच्यप्रवचनतत्त्वाभिनिवेशाद् दोषाणामुपशमः ।
इन्द्रियार्थपरिभोगनिवृत्तिर्वा । संवेगः -संसारभीतिः । निर्वेदः- विषयानभिष्वङ्गः । अनुकम्पा- निरुपधिपरदुःखप्रहाणेच्छा । आस्तिक्यम्-अस्ति आत्मादिपदार्थजातम् इत्येषा
मतिर्यस्य स आस्तिकः । तस्य भाव आस्तिक्यम् । ५ आत्मनस्तीर्थकराधुपदेशदानमन्तरेण स्वत एव जन्तोर्यत् कर्मोपशमादिभ्यो जायते
तनिसर्गसम्यग्दर्शनम् । . - ६ यत् तीर्थकराधुपदेशे सति बाह्यनिमित्तसव्यपेक्षमुपशमादिभ्यो जायते तदधिगमसम्यग्दर्शनम् ।