________________
२४
... १.३१ अत्राह । एषां मतिज्ञानादीनां ज्ञानानां कः कस्य विषयनिबन्ध इति । अत्रोच्यते
मतिश्रुतयोर्निबन्धः 'सर्वद्रव्येष्वसर्वपर्यायेषु ॥ २७ ॥ मतिज्ञानश्रुतज्ञानयोर्विषयनिबन्धो भवति सर्वद्रव्येष्वसर्वपर्यायेषु । ताभ्यां हि सर्वाणि द्रव्याणि जानीते, न तु सर्वैः पर्यायैः ।।२७।।
रूपिष्ववधेः ॥ २८ ॥ रूपिष्वेव द्रव्येष्ववधिज्ञानस्य विषयनिबन्धो भवति असर्वपर्यायेषु । सुविशुद्धेनाप्यवधिज्ञानेन रूपीण्येव द्रव्याण्यवधिज्ञानी जानीते तान्यपि न सर्वैः पर्यायैरिति ॥ २८॥
तदनन्तभागे मनःपर्यायस्य ॥ २९ ॥ यानि रूपीणि द्रव्याण्यवधिज्ञानी जानीते ततोऽनन्तभागे मनःपर्यायस्य विषयनिबन्धो भवति । अवधिज्ञानविषयस्यानन्तभागं मनःपर्यायज्ञानी जानीते रूपिद्रव्याणि मनोरहस्यविचारगतानि च मानुषक्षेत्रपर्यापन्नानि विशुद्धतराणि चेति ॥ २९ ॥
सर्वद्रव्यपर्यायेषु केवलस्य ॥ ३०॥ सर्वद्रव्येषु सर्वपर्यायेषु च केवलज्ञानस्य विषयनिबन्धो भवति । तद्धि सर्वभावग्राहकं सम्भिन्न लोकालोकविषयम् । नातः परं ज्ञानमस्ति । न च केवलज्ञानविषयात्परं किंचिदन्यज्ज्ञेयमस्ति ॥ केवलं परिपूर्णं समग्रमसाधारणं निरपेक्षं विशुद्धं सर्वभावज्ञापकं लोकालोकविषयमनन्तपर्यायमित्यर्थः ॥ ३० ॥ अत्राह । एषां मतिज्ञानादीनां युगपदेकस्मिञ्जीवे कति भवन्तीति । अत्रोच्यते -
एकादीनि भाज्यानि युगपदेकस्मिना चतुर्थ्यः ॥३१॥
१ सर्वाणि च तानि द्रव्याणि च सर्वद्रव्याणि तेषु धर्माधर्माकाशपुद्गलजीवास्तिकायाख्येषु ।
असर्वपर्यायेषु सर्वे निरवशेषा उत्पादव्ययध्रौव्यात्मकाः पर्याया येषां तानि सर्वपर्यायाणि न
सर्वपर्यायाणि असर्वपर्यायाणि तेषु । २ शुक्लादिगुणोपेतानि रूपीणि द्रव्याणि जानात्यवधिज्ञानी ।
तेषामवधिज्ञानदृष्टानामनन्तभागो यस्तस्मिन्ननन्तभागे एकस्मिन् मनःपर्यायज्ञानी जानीते । ३ सम्भिनी संपूर्णी यौ लोकालोको तद्विषयम् । लोको धर्माधर्मद्रव्यद्वयावच्छिन्नमाकाशं, यत्र
त्वाकाशे तौ धर्माधर्मी न स्तः सोऽलोकः ।