________________
तत्त्वार्थाधिगमसूत्रम्
२५
एषां मत्यादीनां ज्ञानानामादित एकादीनि 'भाज्यानि युगपदेकस्मिञ्जीवे आ चतुर्थ्यः । कस्मिंश्चिजीवे मत्यादीनामेकं भवति । कस्मिंश्चिज्जीवे द्वे भवतः । कस्मिंश्चित्त्रीणि भवन्ति । कस्मिंश्चिच्चत्वारि भवन्ति । श्रुतज्ञानस्य तु मतिज्ञानेन नियतः सहभावस्तत्पूर्वकत्वात् । यस्य तु मतिज्ञानं तस्य श्रुतज्ञानं स्याद्वा न वेति । ___अत्राह । अथ केवलज्ञानस्य पूर्वैर्मतिज्ञानादिभिः किं सहभावो भवति नेति । अत्रोच्यते । केचिदाचार्या व्याचक्षते । नाभावः, किन्तु तदभिभूतत्वादकिंचित्कराणि भवन्तीन्द्रियवत् । यथा वा व्यभ्रे नभसि आदित्य उदिते भूरितेजस्त्वादादित्येनाभिभूतान्यन्यतेजांसि ज्वलनमणिचन्द्रनक्षत्रप्रभृतीनि प्रकाशनं प्रत्यकिंचित्कराणि भवन्ति तद्वदिति । केचिदप्याहुः । अपायसद्व्यतया मतिज्ञानं, तत्पूर्वकं श्रुतज्ञानम्,अवधिज्ञानमनःपर्यायज्ञाने च रूपिद्रव्यविषये, तस्मानैतानि केवलिनः सन्तीति ।। किं चान्यत् । मतिज्ञानादिषु चतुर्यु पर्यायेणोपयोगो भवति, न युगपत् । संभिन्नज्ञानदर्शनस्य तु भगवतः केवलिनो युगपत्सर्वभावग्राहके निरपेक्षे केवलज्ञाने केवलदर्शने चानुसम यमुपयोगो भवति ।। किं चान्यत् । क्षयोपशमजानि चत्वारि ज्ञानानि पूर्वाणि, क्षयादेव केवलं । तस्मान्न केवलिनः शेषाणि ज्ञानानि सन्तीति ।। ३१ ॥
१ क्वचित्प्रथमं क्वचिद् द्वे इत्यादिप्रकारेण विकल्पनीयानि ।
केचिदाचार्या व्याचक्षते-नाभाव एवास्ति पूर्वप्राप्तानां मतिज्ञानादीनां-नाशकाभावात् । एकाधिकरण्यावच्छिन्नस्वपूर्ववर्तितासम्बन्धेन केवलस्यैव स्वसमानाधिकरणगुणनाशकत्वे ज्ञानचतुष्टयवत् शर्मवीर्यदर्शनसुखितत्वादेरपि नाशप्रसङ्गात् । न च तनाशः परस्यापि सम्भवात्, तस्मात्सहावस्थानमस्त्येव मत्यादीनां केवलेन । ततः किमिति तानि स्वमर्थं न प्रकाशयन्ति, उच्यते अभिभवात्-तदाह किं त्वभिभूतत्वात् हतप्रभावत्वात् । अकिञ्चित्कराणि स्वकार्याकारीणि भवन्तीन्द्रियवच्चक्षुरादिवत् । यथाहि केवलिनः सदपि चक्षुरादीन्द्रियं विषयग्रहणं प्रति न व्याप्रियते । केवलप्रकाशेन चरितार्थत्वात् । एवं
मत्यादिचतुष्टयमपीति भावः । ३ व्यभ्रे-मेघरहिते। ४ अनुगतोऽव्यवहितः समयोऽत्यन्ताभिभागकालो यत्र कालसन्ताने स काल
सन्तानोऽनुसमयस्तमनुसमयं कालसन्तानमुपयोगो भवति । वारंवारेणोपयोगो भवतीति यावत् । एकस्मिन् समये केवलज्ञानोपयोगे वृत्ते ततोऽन्यस्मिन्केवलदर्शनोपयोगे इति । एवं सर्वकालमवसेयम् ।