________________
२६
१.३४
मतिश्रुतावधयो विपर्ययश्च ॥ ३२ ॥
मतिज्ञानं श्रुतज्ञानमवधिज्ञानमिति । विपर्ययश्च भवत्यज्ञानं चेत्यर्थः । ज्ञानविपर्ययोऽज्ञानमिति ।
अत्राह । तदेव ज्ञानं तदेवाज्ञानमिति, ननु छायातपवच्छीतोष्णवच्च तदत्यन्तविरुद्धमिति । अत्रोच्यते । मिथ्यादर्शनपरिग्रहाद्विपरीतग्राहकत्वमेतेषाम् । तस्मादज्ञानानि भवन्ति । तद्यथा । ' मत्यज्ञानं श्रुताज्ञानं विभङ्गज्ञानमिति । अवधिर्विपरीतो विभङ्ग इत्युच्यते ।। ३२ ।। उक्तं भवता
अत्राह
सम्यग्दर्शनपरिगृहीतं मत्यादिज्ञानं भवत्यन्यथाऽज्ञानमेवेति । मिथ्यादृष्टयोऽपि च भव्याश्चाभव्या'श्चेन्द्रियनिमित्तानविपरीतान्स्पर्शादीनुपलभन्ते, उपदिशन्ति च स्पर्शं स्पर्श इति रसं रस इति । एवं 'शेषान् । तत्कथमेतदिति । अत्रोच्यते । तेषां हि विपरीतमेतद्भवति । सदसतोरविशेषाद्यदृच्छोपलब्धेरुन्मत्तवत् ॥ ३३ ॥
यथोन्मत्तः कर्मोदयादुपहतेन्द्रियमतिर्विपरीतग्राही भवति । सोऽश्वं गौरित्यध्यवस्यति गां चाश्व इति लोष्टं सुवर्णमिति सुवर्णं लोष्ट इति, ̈लोष्टं च लोष्ट इति सुवर्णं सुवर्णमिति, तस्यैवमविशेषेण लोष्टं सुवर्णं सुवर्णं लोष्टमिति विपरीतमध्यवस्यतो नियतमज्ञानमेव भवति तद्वन्मिथ्यादर्शनो
पहतेन्द्रियमतेर्मतिश्रुतावधयोऽप्यज्ञानं भवन्ति ॥ ३३ ॥
उक्तं ज्ञानम् । चारित्रंनवमेऽध्याये वक्ष्यामः । प्रमाणे चोक्ते । नयान् वक्ष्यामः । तद्यथा नैगमसङ्ग्रहव्यवहारर्जुसूत्रशब्दा 'नयाः ॥ ३४ ॥
१ मिथ्यादृष्टिपरिगृहीता मतिर्मत्यज्ञानम् ।
२ मिथ्यादृष्टिपरिगृहीतं श्रुतं श्रुताज्ञानम् ।
३ मिथ्यादृष्टिपरिगृहीतोऽवधिर्विभङ्गज्ञानम् ।
४ भवति परमपदयोग्यतामापादयति इति भव्यः सिद्धिगमनयोग्यः ।
५ तथाविधानादिपारिणामिकभावात् ( कदाचनापि ) सिद्धिगमनायोग्यः ।
६ गन्धरूपशब्दानवैपरीत्येन ।
७ कदाचिच्च लोष्टं लोष्टमेवाध्यवस्यति कदाचिद्वा सुवर्णमित्येव तस्योन्मत्तस्यैवमुक्तेनाविशेषेण
अयथावदवबोधे लोष्टं सुवर्णमित्येवं विपरीतमध्यवस्यतः नियतं निश्चितमज्ञानमेव कुत्सितमेव तज्ज्ञानं भवतीति ।
८ अ. १ सू. ३५ भाष्यम् ।