Book Title: Tattvarthadhigam Sutram
Author(s): Prashamrativijay
Publisher: Ratnatrai Aradhak Sangh

View full book text
Previous | Next

Page 136
________________ तत्त्वार्थाधिगमसूत्रम् अप्रत्यवेक्षिताप्रमार्जिते उत्सर्गः, अप्रत्यवेक्षिताप्रमार्जितस्यादाननिक्षेपी, अप्रत्यवेक्षिताप्रमार्जितः संस्तारोपक्रमः अनादरः स्मृत्यनुपस्थानमित्येते पञ्च पौषधोपवासस्यातिचारा भवन्ति ।। २९ ।। , सचित्तसंबद्धसंमिश्राभिषवदुष्पक्काहाराः ॥ ३० ॥ अन्नादेर्द्रव्यजातस्य 'सचित्ताहारः, 'सचित्तसंबद्धाहारः, सचित्तसंमिश्राहारः, अभिषवाहारः, "दुष्पक्काहार इत्येते पञ्चोपभोगव्रतस्यातिचारा भवन्ति ॥ ३० ॥ सचित्तनिक्षेपपिधानपरव्यपदेशमात्सर्यकालातिक्रमाः ॥ ३१ ॥ सचित्ते निक्षेपः, सचित्तपिधानं परस्येदमिति मात्सर्यं कालातिक्रम इत्येते पञ्चातिथिसंविभागस्यातिचारा जीवितमरणाशंसामित्रानुरागसुखानुबन्धनिदानकरणानि ॥ ३२ ॥ जीविताशंसा", मरणाशंसा, मित्रानुरागः, सुखानुबन्धो, निदानकरणमित्येते मारणान्तिकसंलेखनायाः पञ्चातिचारा भवन्ति ॥ परव्यपदेशः, भवन्ति ॥ ३१ ॥ " ११९ ४. सुरासौवीरकमांसप्रकारपर्णाद्यनेकद्रव्यसंधाननिष्पन्नः । ५. दुःपक्कं तदेतेषु सम्यक्त्वव्रतशीलव्यतिक्रमस्थानेषु पञ्चषष्टिष्वतिचारस्थानेषु अप्रमादो -न्याय इति ।। ३२ ।। अत्राह । उक्तानि व्रतानि व्रतिनश्च । अथ दानं किमिति । अत्रोच्यतेअनुग्रहार्थं स्वस्यातिसर्गो दानम् ॥ ३३ ॥ आत्मपरानुग्रहार्थं स्वस्य द्रव्यजातस्यान्नपानवस्त्रादेः पात्रेऽतिसर्गे दानम् ॥ ३३ ॥ १. मूलकन्दल्यादीनां पृथ्वीकायानां वा सचित्तानामाहारः । २. सचित्तेन संबद्धं कर्कटिकपक्वबदरोदुम्बराम्रफलादि भक्षयतः सचित्तसंबद्धाहारत्वम् । ३. सचित्तेन संमिश्राहारः- पुष्पफलव्रीहितिलादिना मिश्रः I पिपीलिकादिसूक्ष्मजन्तुमिश्रस्याभ्यवहारः । मोदकादिखाद्यस्य 1 मन्दपक्कमभिन्नतन्दुललोष्ठयवगोधूमस्थूलमण्डकादि ऐहिकप्रत्यवायकारी यावता वा अंशेन सचेतनस्तावता परलोकमप्युपहन्ति । वा तस्याभ्यवहारे ६. आशंसा - अभिलाषा । ७. विजितेन्द्रियकषायः स्वाध्यायतपोध्यानसमाधिभाक् मूलोत्तरगुणसंपदुपेतः पात्रमिष्यते ।

Loading...

Page Navigation
1 ... 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218