Book Title: Tattvarthadhigam Sutram
Author(s): Prashamrativijay
Publisher: Ratnatrai Aradhak Sangh
View full book text
________________
१२४
८.९
ज्ञानावरणं पञ्चविधं भवति । मत्यादीनां' ज्ञानानामावरणानि पञ्च विकल्पांश्चैकश इति ॥ ७ ॥
चक्षुरचक्षुरवधिकेवलानां निद्रानिद्रानिद्राप्रचलाप्रचलाप्रचलास्त्यानगृद्धिवेदनीयानि च ॥ ८॥
चक्षुर्दर्शनावरणं, अचक्षुर्दर्शनावरणं, अवधिदर्शनावरणं, केवलदर्शनावरणं, निद्रावेदनीयं, निद्रानिद्रावेदनीयं, - प्रचलावेदनीयं, प्रचलाप्रचलावेदनीयं, स्त्यानगृद्धिवेदनीयमिति दर्शनावरणं नवभेदं भवति ॥ ८ ॥
सदसवेद्ये ॥ ९ ॥
१ (१) अष्टाविंशतिभेदभिन्न मतिज्ञानं येनाव्रियते तन्मतिज्ञानावरणं देशघाति, लोचनपटवत् ।
(२) श्रोत्रोपलब्धिरूपश्रुतज्ञानं येनाव्रियते तत् श्रुतज्ञानावरणम् तदपि देशघाति भवति (३) इन्द्रियानिन्द्रियनिरपेक्षत्वे सति आत्मनोऽवधिज्ञानावरणक्षयोपशमजन्यपुद्गलविषयकप्रकाशाविर्भावरूपं अवधिज्ञानं येनावियते तदवधिज्ञानावरणम् तदपि देशघाती । (४) साक्षादात्मनो मनोद्रव्यपर्यायान् निमित्तीकृत्य मनुष्यक्षेत्राभ्यन्तरवर्तिसंज्ञिपंचेन्द्रियमनोग्राहिप्रकाशविशेषरूपं मनःपर्यायज्ञानं येनावियते तन्मनःपर्यायज्ञानावरणम्, तदपि देशघाति । (५) केवलज्ञानावरणक्षयसमुद्भूत
मात्मप्रकाशस्वरूपं केवलज्ञानं येनाव्रियते तत्केवलज्ञानावरणम्, तच्च सर्वघाति भवति । २ (१) पश्यत्यनेनात्मेति चक्षुः सर्वमेवेन्द्रियमात्मनः सामान्यविशेषबोधस्वभावस्य करणं
तद्द्वारकं यत्सामान्यमात्रोपलम्भनमात्मपरिणतिरूपं चक्षुर्दर्शनम्, तद्घाति चक्षुर्दर्शनावरणम् तच देशघाति भवति । (२) शेषेन्द्रियमनोविषयकमविशिष्टमचक्षुर्दर्शनम्, तद्घाति कर्माचक्षुर्दर्शनावरणम् । तच वेत्रिसमं भवति । (३।४) अवधिदर्शनावरणक्षयोपशमसमुद्भूतमवधिदर्शनम् । साक्षादात्मनः सामान्यमात्रोपलंभं केवलदर्शनावरणक्षयसमुद्भूतं केवलदर्शनम् । तयोरावारकं कर्म अवधिदर्शनावरणम् केवलदर्शनावरणं च भवति । (५) सुखप्रबोधस्वभावावस्थाविशेषरूपत्वं, सुखजागरणस्वभावस्वापावस्थाविशेषरूपत्वं वा निद्राया लक्षणम् । (६) दुःखजागरणस्वभावस्वापावस्थाविशेषरूपत्वं, दुःखप्रतिबोधस्वापावस्थाविशेषरूपत्वं वा निद्रानिद्राया लक्षणम् (७) स्थितोपस्थितस्वापावस्थाविशेषरूपत्वं प्रचलाया लक्षणम् । (८) चंक्रमणविषयकस्वापावस्थाविशेषरूपत्वं प्रचलाप्रचलाया लक्षणम् । (९) दिनचिन्तितार्थातिकासविषयकस्वापावस्थाविशेषरूपत्वं, जाग्रदवस्थाध्यवसितार्थसंसाधनविषयकाभिकासनिमित्तकस्वापावस्थाविशेषरूपत्वं वा स्त्यानद्धेर्लक्षणम् ॥ अत्र निद्रादयस्तु समधिगताया दर्शनलब्धेरुपघाते प्रवर्तन्ते ॥ चक्षुर्दर्शनावरणादिचतुष्टयं तु दर्शनोद्गमोच्छेदित्वात् मूलघातं निर्वहन्ति |

Page Navigation
1 ... 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218