________________
१२४
८.९
ज्ञानावरणं पञ्चविधं भवति । मत्यादीनां' ज्ञानानामावरणानि पञ्च विकल्पांश्चैकश इति ॥ ७ ॥
चक्षुरचक्षुरवधिकेवलानां निद्रानिद्रानिद्राप्रचलाप्रचलाप्रचलास्त्यानगृद्धिवेदनीयानि च ॥ ८॥
चक्षुर्दर्शनावरणं, अचक्षुर्दर्शनावरणं, अवधिदर्शनावरणं, केवलदर्शनावरणं, निद्रावेदनीयं, निद्रानिद्रावेदनीयं, - प्रचलावेदनीयं, प्रचलाप्रचलावेदनीयं, स्त्यानगृद्धिवेदनीयमिति दर्शनावरणं नवभेदं भवति ॥ ८ ॥
सदसवेद्ये ॥ ९ ॥
१ (१) अष्टाविंशतिभेदभिन्न मतिज्ञानं येनाव्रियते तन्मतिज्ञानावरणं देशघाति, लोचनपटवत् ।
(२) श्रोत्रोपलब्धिरूपश्रुतज्ञानं येनाव्रियते तत् श्रुतज्ञानावरणम् तदपि देशघाति भवति (३) इन्द्रियानिन्द्रियनिरपेक्षत्वे सति आत्मनोऽवधिज्ञानावरणक्षयोपशमजन्यपुद्गलविषयकप्रकाशाविर्भावरूपं अवधिज्ञानं येनावियते तदवधिज्ञानावरणम् तदपि देशघाती । (४) साक्षादात्मनो मनोद्रव्यपर्यायान् निमित्तीकृत्य मनुष्यक्षेत्राभ्यन्तरवर्तिसंज्ञिपंचेन्द्रियमनोग्राहिप्रकाशविशेषरूपं मनःपर्यायज्ञानं येनावियते तन्मनःपर्यायज्ञानावरणम्, तदपि देशघाति । (५) केवलज्ञानावरणक्षयसमुद्भूत
मात्मप्रकाशस्वरूपं केवलज्ञानं येनाव्रियते तत्केवलज्ञानावरणम्, तच्च सर्वघाति भवति । २ (१) पश्यत्यनेनात्मेति चक्षुः सर्वमेवेन्द्रियमात्मनः सामान्यविशेषबोधस्वभावस्य करणं
तद्द्वारकं यत्सामान्यमात्रोपलम्भनमात्मपरिणतिरूपं चक्षुर्दर्शनम्, तद्घाति चक्षुर्दर्शनावरणम् तच देशघाति भवति । (२) शेषेन्द्रियमनोविषयकमविशिष्टमचक्षुर्दर्शनम्, तद्घाति कर्माचक्षुर्दर्शनावरणम् । तच वेत्रिसमं भवति । (३।४) अवधिदर्शनावरणक्षयोपशमसमुद्भूतमवधिदर्शनम् । साक्षादात्मनः सामान्यमात्रोपलंभं केवलदर्शनावरणक्षयसमुद्भूतं केवलदर्शनम् । तयोरावारकं कर्म अवधिदर्शनावरणम् केवलदर्शनावरणं च भवति । (५) सुखप्रबोधस्वभावावस्थाविशेषरूपत्वं, सुखजागरणस्वभावस्वापावस्थाविशेषरूपत्वं वा निद्राया लक्षणम् । (६) दुःखजागरणस्वभावस्वापावस्थाविशेषरूपत्वं, दुःखप्रतिबोधस्वापावस्थाविशेषरूपत्वं वा निद्रानिद्राया लक्षणम् (७) स्थितोपस्थितस्वापावस्थाविशेषरूपत्वं प्रचलाया लक्षणम् । (८) चंक्रमणविषयकस्वापावस्थाविशेषरूपत्वं प्रचलाप्रचलाया लक्षणम् । (९) दिनचिन्तितार्थातिकासविषयकस्वापावस्थाविशेषरूपत्वं, जाग्रदवस्थाध्यवसितार्थसंसाधनविषयकाभिकासनिमित्तकस्वापावस्थाविशेषरूपत्वं वा स्त्यानद्धेर्लक्षणम् ॥ अत्र निद्रादयस्तु समधिगताया दर्शनलब्धेरुपघाते प्रवर्तन्ते ॥ चक्षुर्दर्शनावरणादिचतुष्टयं तु दर्शनोद्गमोच्छेदित्वात् मूलघातं निर्वहन्ति |