SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ १२३ तत्त्वार्थाधिगमसूत्रम् उत्तरोत्तरभावे तु पूर्वेषामनियम इति ॥१॥ ____ सकषायत्वान्जीवः कर्मणो योग्यान्पुद्गलानादत्ते ॥ २ ॥ सकषायत्वाज्जीवः कर्मणो योग्यान् पुद्गलान् आदत्ते । कर्मयोग्यानिति अष्टविधे पुद्गलग्रहणे कर्मशरीरग्रहणयोग्यानि । नामप्रत्ययाः सर्वतो योगविशेषादिति 'वक्ष्यते ॥ २ ॥ स बन्धः ॥ ३ ॥ स एष कर्मशरीरपुद्गलग्रहणकृतो बन्धो भवति ॥ ३ ॥ स पुनश्चतुर्विधः ॥ प्रकृतिस्थित्यनुभावप्रदेशास्तद्विधयः ॥ ४ ॥ प्रकृतिबन्धः, स्थितिबन्धः, अनुभावबन्धः, प्रदेशबन्धः इति ॥ ४ ॥ तत्र - आयो ज्ञानदर्शनावरणवेदनीयमोहनीयायुष्कनामगोत्रान्तरायाः ॥ ५ ॥ आद्य इति सूत्रक्रमप्रामाण्याप्रकृतिबन्धमाह । सोऽष्टविधः । तद्यथा । ज्ञानावरणं, दर्शनावरणं, वेदनीयं, मोहनीयं,आयुष्कं, नाम, गोत्रं, अन्तरायमिति ॥५॥ किं चान्यतपञ्चनव-व्यष्टाविंशतिचतुर्द्विचत्वारिंशद्धिपञ्चभेदा यथाक्रमम् ॥ ६ ॥ स एष प्रकृतिबन्धोऽष्टविधोऽपि पुनरेकशः पञ्चभेदः नवभेदः द्विभेदः अष्टाविंशतिभेदः चतुर्भेदः द्विचत्वारिंशभेदः द्विभेदः पञ्चभेद इति यथाक्रम प्रत्येतव्यम् । इत उत्तरं यद्वक्ष्यामः ॥६॥ तद्यथा मत्यादीनाम् ॥ ७ ॥ १. अ. ८ सू. २५. २. बन्धः-जीवस्य कर्मपुद्गलसंश्लेषः स चतुर्धा - स्थित्यनुभावप्रदेशबन्धानां यः समुदायः स प्रकृतिबन्धः । अध्यवसायविशेषगृहीतस्य कर्मदलिकस्य यत् स्थितिकालनियमनं स स्थितिबन्धः । कर्मपुद्गलानामेव शुभोऽशुभो वा घात्यघाती वा यो रसः सोऽनुभावबन्धो रसबन्ध इत्यर्थः । कर्मपुद्गलानामेव यद्ग्रहणं स्थितिरसनिरपेक्षं दलिकसंख्याप्राधान्येनैव करोति स प्रदेशबन्धः । उक्तं च 'प्रकृतिः समुदायः स्यात् स्थितिः कालावधारणम् । अनुभावो रसः प्रोक्तः प्रदेशो दलसञ्चयः ॥१॥' इति ।
SR No.022503
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherRatnatrai Aradhak Sangh
Publication Year
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy