________________
१२२
2-9
२
यथोक्ताया विरतेर्विपरीताऽविरतिः ।। प्रमादः स्मृत्यनवस्थानं, कुशलेष्वनादरो, योगदुष्प्रणिधानं चैष प्रमादः ॥ कषाया मोहनीये 'वक्ष्यन्ते । योगस्त्रिविधः पूर्वोक्तः ' ॥ एषां मिथ्यादर्शनादीनां बन्धहेतूनां पूर्वस्मिन्पूर्वस्मिन्सति नियतमुत्तरेषां भावः । विकल्पाः, एवं च द्वादश सप्तगुणाश्चतुरशीतिविकल्पाः नास्तिकानामिति । अज्ञानिकानां तु सप्तषष्टिर्भवति, इयं चामुनोपायेन द्रष्टव्या- तो जीवाजीवादीन् नवपदार्थान् पूर्ववत् व्यवस्थाप्य पर्यन्ते चोत्पत्तिमुपन्यस्याधः सप्त सदादय उपन्यसनीयाः । सत्त्व, असत्त्वं सदसत्त्वं, अवाच्यत्वं, सदवाच्यत्वं, असदवाच्यत्वं सदसदवाच्यत्व, मिति, तत एते नव सप्तकाः त्रिषष्टि, उत्पत्तेस्तु चत्वार एव आद्या विकल्पाः, तद्यथा-सत्त्वमसत्त्वं, सदसत्त्वं, अवाच्यत्वं, चेति, त्रिषष्टिमध्ये क्षिप्ताः सप्तषष्टिर्भवन्ति । विकल्पाभिलापश्चैवं को जानाति जीवः सन्निति किं वा तेन ज्ञातेनेत्येको विकल्पः, एवमसदादयोऽपि वाच्याः, तथा सती भावोत्पत्तिरिति को जानाति किं वा अनया ज्ञातया ? एवमसती सदसती अवक्तव्या चेति, सत्त्वादिसप्तभंग्याश्चायमर्थः स्वरूपमात्रापेक्षया वस्तुनः सत्त्वं, स्वरूपमात्रापेक्षया त्वसत्त्वं, तथा एकस्य घटादिद्रव्यदेशस्य ग्रीवादेः सद्भावपर्यायेण ग्रीवत्वादिनाऽऽदिष्टस्य सत्त्वात्तथा घटादिद्रव्यदेशस्यापरस्य बुध्नादेरसद्भावपर्यायेण ग्रीवत्वादिना परगतपर्यायेणैवादिष्टस्यासत्त्वात् वस्तुनः सदसत्त्वम्, तथा सकलस्यैवाखण्डितस्य घटादिव - स्तुनोऽर्थान्तरभूतैः पटादिपर्यायैर्निजैश्चोर्ध्वकुण्डलौष्ठायतवृत्तग्रीवादिभिर्युगपद्विवक्षितस्य सत्त्वेनासत्त्वेन वा वक्तुमशक्यत्वात् तस्य घटादेर्द्रव्यस्यावक्तव्यत्वम्, तथा घटादिद्रव्यस्यैकदेशस्य सद्भावपर्यायैरादिष्टस्य सत्त्वादपरस्य स्वपरपर्यायैर्गुपदादिष्टतया सत्त्वेनासत्त्वेन वक्तुमशक्यत्वात् घटादिद्रव्यस्य सदवक्तव्यमिति, तथा तस्यैव घटादिद्रव्यस्यैकदेशस्य परपर्यायैरादिष्टस्यासत्त्वादपरदेशस्य स्वपरपर्यायैर्युगपदादिष्टत्वेन तथैव वक्तुमशक्यत्वात् तस्य घटादेरसदवक्तव्यत्वम्, तथा घटादिद्रव्यस्यैकदेशस्य स्वपर्यायैरादिष्टत्वेन सत्त्वादपरस्य परपर्यायैरादिष्टतयता असत्त्वादन्यस्य स्वपरपर्यायैर्युगपदादिष्टस्य तथैव वक्तुमशक्यत्वेनावक्तव्यत्वात् तस्य घटादिद्रव्यस्य सदसदवक्तव्यत्वमिति । इह च प्रथमद्वितीयचतुर्था अखण्डवस्त्वाश्रिताः शेषाश्चत्वारो वस्तुदेशाश्रिता दर्शिताः, तथाऽन्यैस्तृतीयोऽपि विकल्पो खण्डवस्त्वाश्रित एवोक्तः, तथाहि - अखण्डस्य वस्तुनः स्वपर्यायैः परपर्यायैश्च विवक्षितस्य सदसत्त्वमिति, अत एवाभिहितमाचारटीकायाम् 'इह चोत्पत्तिमङ्गीकृत्योत्तरविकल्पत्रयं न सम्भवति, पदार्थावयवापेक्षत्वात् तस्योत्पत्तेश्चावयवाऽभावात्' इति, एवमज्ञानिकानां सप्तषष्टिर्भवति इति । वैनयिकानां च द्वात्रिंशत् सा चैवमवसेया-सुरनृपतियतिज्ञातिस्थविराधममातृपितॄणां प्रत्येकं कायेन वाचा मनसा दानेन च देशकालोपपन्नेन विनयः कार्य इत्येते चत्वारो भेदाः सुरादिष्वष्टासु स्थानेषु भवन्ति ते चैकत्र मीलिता द्वात्रिंशदिति, सर्वसंख्या पुनरेतेषां त्रीणि शतानि त्रिषष्ट्यधिकानीति ।
१. अ. ८ सू. १०.
वा
२. अ. ६ सू. १.
१. अ. ८ सू. २५.
२. बन्धः-जीवस्य कर्मपुद्गलसंश्लेषः स चतुर्धा - स्थित्यनुभावप्रदेशबन्धानां यः समुदायः स