________________
अथ अष्टमोऽध्यायः । उक्त आस्रवः । बन्धं वक्ष्यामः । तत्प्रसिद्ध्यर्थमिदमुच्यते ।
मिथ्यादर्शनाविरतिप्रमादकषाययोगा बन्धहेतवः ॥ १ ॥ मिथ्यादर्शनं अविरतिः प्रमादः कषाया योगा इत्येते पञ्च बन्धहेतवो भवन्ति । तत्र सम्यग्दर्शनाद्विपरीतं मिथ्यादर्शनम् । तद् द्विविधमभिगृहीतमनभिगृहीतं च ॥ तत्राभ्युपेत्यासम्यग्दर्शनपरिग्रहोऽभिगृहीतमज्ञानिकादीनां त्रयाणां 'त्रिषष्टानां कुवादिशतानाम् । शेषमनभिगृहीतम् ॥ १. अज्ञानं अभ्युपगमद्वारेण येषामस्ति ते अज्ञानिकाः त एव वादिनोऽज्ञानिकवादिनः,
अज्ञानमेव श्रेय इत्येवं प्रतिज्ञा इत्यर्थ, विनय एव वैनयिकं तदेव निःश्रेयसायेत्येवंवादिनो वैनयिकवादिन इति । एतद्भेदसंख्या चेयम् ‘असियसयं किरियाणं अकिरियवाईण होइ चुलसीई । अत्राणिण सत्तठ्ठी वेणइयाणं च बत्तीसा ।।१।।' (क्रियावादिनां अशीत्यधिकं शतं अक्रियावादिनां चतुरशीतिरज्ञानिनां सप्तषष्टिः वैनयिकानां द्वात्रिंशत् ॥१॥ इति) तत्राशीत्यधिकं शतं क्रियावादिनां भवति । इदं चामुनोपायेनावगन्तव्यम् । जीवाजीवाश्रवसंवरबन्धनिर्जरापुण्यापुण्यमोक्षाख्यान् नवपदार्थान् विरचय्य परिपाट्या जीवपदार्थस्याधः स्वपरभेदावुपन्यसनीयौ । तयोरधो नित्यानित्यभेदी । तयोरप्यधः कालेश्वरात्मनियतिस्वभावभेदाः पञ्च न्यसनीयाः । पुनश्चेत्यं विकल्पाः कर्तव्याः- अस्ति जीवः स्वतो नित्यः कालत इत्येको विकल्पः, विकल्पार्थश्चायम्-विद्यते खल्वयमात्मा स्वेन रूपेण न परापेक्षया इस्वत्वदीर्घत्वे इव नित्यश्च कालवादिनः, उक्तेनैवाभिलापेन द्वितीयो विकल्प ईश्वरकारणिनः । तृतीयो विकल्प आत्मवादिनः 'पुरुष एवेदं ग्नि' मित्यादि प्रतिपत्तुरिति, चतुर्थो नियतिवादिनः, नियतिश्च-पदार्थानामवश्यन्तया यद्यथा भवने प्रयोजककींति पञ्चमः स्वभाववादिनः । एवं स्वतोऽजहता लब्धाः पञ्च विकल्पाः, परत इत्यनेनापि पञ्चैव लभ्यन्ते, तत्र परत इत्यस्यायमर्थः- इह सर्वपदार्थानां पररूपापेक्षः स्वरूपपरिच्छेदो यथा इस्वत्वाद्यपेक्षो दीर्घत्वादिपरिच्छेदः एवमेव चात्मनः स्तम्भकुम्भादीन् समीक्ष्य तव्यतिरिक्ते हि वस्तुन्यात्मबुद्धिः प्रवर्तत इत्यतो यदात्मनः स्वरूपं तत्परत एवावधार्यते न स्वत इति, नित्यत्वापरित्यागेन चैते दशविकल्पाः, एवमनित्यत्वेनापि दशैव, एवं विंशतिर्जीवपदार्थेन लब्धाः अजीवादिष्वप्यष्टस्वेवमेव प्रतिपदं विंशतिर्विकल्पानामतो विंशतिर्नवगुणा शतमशीत्युत्तरं क्रियावादिनामिति । एते च विकल्पा एकैकशो न लभ्यन्ते शीलाङ्गवदिति । तथा अक्रियावादिनां तु चतुरशीतिर्द्रष्टव्या, एवं चेयं पुण्यापुण्यविवर्जितपदार्थसप्तकन्यासस्तथैव जीवस्याधः स्वपररूपविकल्पद्वयोपन्यासः, असत्त्वादात्मनो नित्यानित्यभेदी न स्तः, कालादीनां तु पंचानां षष्ठी यदृच्छा न्यस्यते, इयं चानभिसन्धिपूर्विकार्थप्राप्तिरिति, पश्चाद्विकल्पाभिलापः- नास्ति जीवः स्वतः कालत इत्येको विकल्पः, एवमीश्वरादिभिरपि यदृच्छावसानैः सर्वे षड्विकल्पाः, तथा नास्ति जीवः परतः कालत इति षडेव विकल्पा इत्येकत्र द्वादश, एवममजीवादिष्वपि षट्सु प्रत्येकं द्वादश