SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ १२० ७-३४ विधिद्रव्यदातृपात्रविशेषात्तद्विशेषः ॥ ३४ ॥ विधिविशेषाद्, द्रव्यविशेषाद्, दातृविशेषात्पात्रविशेषाच्च तस्य दानधर्मस्य विशेषो भवति । तद्विशेषाच्च फलविशेषः ॥ तत्र विधिविशेषो नाम देशकालसंपच्छ्रद्धासत्कारक्रमाः कल्पनीयत्वमित्येवमादिः ॥ द्रव्यविशेषोऽन्नादीनामेव सारजातिगुणोत्कर्षयोगः ॥ दातृविशेषः-प्रतिग्रहीतर्यनसूया, त्यागेऽविषादः अपरिभाविता, दित्सतो ददतो दत्तवतश्च प्रीतियोगः, कुशलाभिसंधिता, दृष्टफ'लानपेक्षिता निरुपधत्वमनिदानत्वमिति ॥ पात्रविशेषः सम्यग्दर्शनज्ञानचारित्रतपःसंपन्नता इति ॥ ३४ ॥ इति तत्त्वार्थाधिगमे स्वोपज्ञभाष्यसमेते सप्तमोऽध्यायः समाप्तः ॥ ७ ॥ १. दृष्टं फलं राज्यैश्वर्यसुखादि, सर्व वा सांसारिकम् । स्वर्गाद्यपि दृष्टमेव, बहुशोऽनुकूलत्वात्, तन्नापेक्षते, न प्रार्थयते यः स दृष्टफलानपेक्षी, तद्भावः । २. निदानं स्वर्गमानुषजन्मविषयं तत्प्राप्त्यभिसन्धिविरहात् निर्जरार्थमेव केवलमनिदानत्वमिति ।
SR No.022503
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherRatnatrai Aradhak Sangh
Publication Year
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy