________________
१२५
तत्त्वार्याधिगमसूत्रम् सद्वेद्यं असद्वेद्यं च वेदनीयं द्विभेदं भवति ॥९॥
दर्शनचारित्रमोहनीयकषायनोकषायवेदनीयाख्यास्त्रिद्विषोडशनवभेदाःसम्यक्त्वमिथ्यात्वतदुभयानि कषायनोकषायावनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानावरण संज्वलनविकल्पाश्चैकशः क्रोधमानमायालोभाः
हास्यरत्यरतिशोकभयजुगुप्साः स्त्रीपुनपुंसकवेदाः ॥ १० ॥ त्रिद्विषोडशनवभेदा यथाक्रमम् । मोहनीयबन्धो द्विविधो दर्शनमोहनीयाख्यश्चारित्रमोहनीयाख्यश्च । तत्र दर्शनमोहनीयाख्यस्त्रिभेदः । तद्यथा । मिथ्यात्ववेदनीयं, सम्यक्त्ववेदनीयं, सम्यग्मिथ्यात्ववेदनीयमिति । चारित्रमोहनीयाख्यो द्विभेदः कषायवेदनीयं नोकषायवेदनीयं चेति । तत्र कषायवेदनीयाख्यः षोडशभेदः । तद्यथा । अनन्तानुबन्धी क्रोधो मानो मायालोभः, एवमप्रत्याख्यानकषायः प्रत्याख्यानावरणकषायः संज्वलनकषाय इत्येकशः क्रोधमानमायालोभाः षोडश भेदाः । नोकषायवेदनीयं नवभेदम् । तद्यथा । हास्यं; रतिः, अरतिः, शोकः, भयं, जुगुप्सा, पुरुषवेदः, स्त्रीवेदः, नपुंसकवेद इति नोकषायवेदनीयं नवप्रकारम् ॥ तत्र पुरुषवेदादीनां तृणकाष्ठकरीषाग्नयो निदर्शनानि भवन्ति । इत्येवं मोहनीयमष्टाविंशतिभेदं भवति ॥ ___अनन्तानुबन्धी सम्यग्दर्शनोपघाती । तस्योदयाद्धि सम्यग्दर्शनं नोत्पद्यते । पूर्वोत्पन्नमपि च प्रतिपतति । अप्रत्याख्यानकषायोदयाद्विरतिर्न भवति । प्रत्याख्यानावरणकषायोदयाद्विरताविरतिर्भवति, उत्तमचारित्रलाभस्तु न भवति । संज्वलनकषायोदयाद्यथाख्यातचारित्रलाभो न भवति । ___ क्रोधः कोपो रोषो द्वेषो भण्डनं भाम इत्यनर्थान्तरम् । तस्यास्य क्रोधस्य तीव्रमध्यविमध्यमन्दभावाश्रितानि निदर्शनानि भवन्ति । तद्यथा । पर्वतराजिसदृशः 'भूमिराजिसदृशः वालुकाराजिसदृश उदकराजिसदृश इति । तत्र पर्वतराजिसदृशो नाम । यथा प्रयोगविस्रसामिश्रकाणामन्यतमेन हेतुना पर्वतराजिरुत्पन्ना नैव कदाचिदपि संरोहति, एवमिष्टवियोजनानिष्टयोजनाभिलषितालाभादीनामन्यतमेन हेतुना यस्योत्पन्नः क्रोध आमरणान व्ययं गच्छति, जात्यन्तरानुबन्धी निरनुनयस्तीव्रानुशयोऽप्रत्यवमर्शश्च भवति स पर्वतराजिसदृशः । तादृशं