________________
१२६
८.१०
क्रोधमनुमृता नरकेषूपपत्तिं प्राप्नुवन्ति ॥ भूमिराजिसदृशो नाम । यथा भूमेर्भास्कररश्मिजालादात्तस्नेहाया वाय्वभिहताया राजिरुत्पन्ना वर्षापेक्षसंरोहा परमप्रकृष्टाष्टमासस्थितिर्भवति, एवं यथोक्तनिमित्तो यस्य क्रोधोऽनेकविधस्थानीयो दुरनुनयो भवति स भूमिराजिसदृशः । तादृशं क्रोधमनुमृतास्तिर्यग्योनावुपपत्तिं प्राप्नुवन्ति ॥ वालुकाराजिसदृशो नाम । यथा वालुकायां काष्ठशलाकाशर्करादीनामन्यतमेन हेतुना राजिरुत्पन्ना वाय्वीरणाद्यपेक्षसंरोहा अर्वाग् मासस्य रोहति, एवं यथोक्तनिमित्तोत्पनो यस्य क्रोधोऽहोरात्रं पक्षं मासं चातुर्मास्यं संवत्सरं वावतिष्ठते स वालुकाराजिसदृशो नाम क्रोधः । तादृशं क्रोधमनुमृता मनुष्येषूपपत्तिं प्राप्नुवन्ति ॥ उदकराजिसदृशो नाम । यथोदके दण्डशलाकाङ्गुल्यादीनामन्यतमेन हेतुना राजिरुत्पन्ना द्रवत्वादपामुत्पत्त्यनन्तरमेव संरोहति एवं यथोक्तनिमित्तो यस्य क्रोधो विदुषोऽप्रमत्तस्य प्रत्यवमर्शेनोत्पत्त्यनन्तरमेव, व्यपगच्छति स उदकराजिसदृशः । तादृशं क्रोधमनुमृता देवेषूपपत्तिं प्राप्नुवन्ति । येषां त्वेष चतुर्विधोऽपि न भवति ते निर्वाणं प्राप्नुवन्ति । ____ मानः स्तम्भो गर्व उत्सेकोऽहंकारो दो मदः स्मय इत्यनन्तरम् । तस्यास्य मानस्य तीव्रादिभावाश्रितानि निदर्शनानि भवन्ति । तद्यथा । शैलस्तम्भसदृशः अस्थिस्तम्भसदृशः दारुस्तम्भसदृशः लतास्तम्भसदृश हति । एषामुपसंहारो निगमनं च क्रोधनिदर्शनाख्यातम् ॥
माया प्रणिधिरुपधिनिकृतिराचरणं, वञ्चना, दम्भ,: कूट, अतिसन्धानमनार्जवमित्यनान्तरम् । तस्या मायायास्तीव्रादिभावाश्रितानि निदर्शनानि भवन्ति । तद्यथा । वंशकुणसदृशी, मेषविषाणसदृशी, गोमूत्रिकासदृशी निर्लेखनसदृशीति । अत्राप्युपसंहारनिगमने क्रोधनिदर्शनाख्याते ।।
लोभो रागो गार्थ्यमिच्छा मूर्छा स्नेहः कांक्षाभिष्वङ्ग इत्यनर्थान्तरम् । तस्यास्य लोभस्य तीव्रादिभावाश्रितानि निदर्शनानि भवन्ति । तद्यथा लाक्षारागसदृशः कर्दमरागसदृशः, कुसुम्भरागसदृशो, हरिद्रारागसदृश इति । अत्राप्युपसंहारनिगमने क्रोधनिदर्शनाख्याते।
एषां क्रोधादीनां चतुर्णां कषायाणां प्रत्यनीकभूताः प्रतिघातहेतवो भवन्ति । तद्यथा । क्षमा क्रोधस्य, मार्दवं मानस्य, आर्जवं मायायाः, संतोषो लोभस्येति ॥ १० ॥