________________
१२७
तत्त्वार्थाधिगमसूत्रम्
नारकतैर्यग्योनमानुषदैवानि ॥ ११ ॥ आयुष्कं चतुर्भेद-नारकं तैर्यग्योनं मानुषं दैवमिति ।। ११ ॥
गतिजातिशरीराङ्गोपाङ्गनिर्माणबन्धनसङ्घातसंस्थान संहननस्पर्शरसगन्धवर्णानुपूर्वगुरुलघूपघातपराघाता तपोद्योतोच्छ्वासविहायोगतयः प्रत्येकशरीरत्रससुभगसुस्वर
शुभसूक्ष्मपर्याप्तस्थिरादेययशांसि सेतराणि तीर्थकृत्त्वं च ॥ १२ ॥ गतिनाम जातिनाम शरीरनाम अङ्गोपाङ्गनाम निर्माणनाम बन्धननाम संघातनाम संस्थाननाम संहनननाम स्पर्शनाम रसनाम गन्धनाम वर्णनाम आनुपूर्वीनाम अगुरुलघुनाम उपघातनाम पराघातनाम आतपनाम उद्योतनाम उच्छ्वासनाम विहायोगतिनाम । प्रत्येकशरीरादीनां सेतराणां नामानि । तद्यथा । प्रत्येकशरीरनाम साधारणशरीरनाम त्रसनाम स्थावरनाम सुभगनाम दुर्भगनाम सुस्वरनाम दुःस्वरनाम शुभनाम अशुभनाम सूक्ष्मनाम बादरनाम पर्याप्तनाम अपर्याप्तनाम स्थिरनाम अस्थिरनाम आदेयनाम अनादेयनाम यशोनाम अयशोनाम तीर्थनाम तीर्थकरनाम इत्येतद् द्विचत्वारिंशद्विधं मूलभेदतो नामकर्म भवति । उत्तरनामानेकविधम् । तद्यथा । गतिनाम चतुर्विधं, नरकगतिनाम तिर्यग्योनिगतिनाम मनुष्यगतिनाम देवगतिनामेति ॥ जातिनाम्नो मूलभेदाः पञ्च । तद्यथा । एकेन्द्रियजातिनाम द्वीन्द्रियजातिनाम त्रीन्द्रियजातिनाम चतुरिन्द्रियजातिनाम पञ्चेन्द्रियजातिनामेति ॥ एकेन्द्रियजातिनामानेकविधम् । तद्यथा । पृथिवीकायिकजातिनाम अप्कायिकजातिनाम तेजःकायिकजातिनाम वायुकायिकजातिनाम वनस्पतिकायिकजातिनामेति ॥ तत्र पृथिवीकायिकजातिनामानेकविधम् । तद्यथा । शुद्धपृथिवीशर्करावालुकोपलशिलालवणायस्त्रपु-ताम्र-सीसक-रूप्य-सुवर्ण-वज्र- हरितालहिङ्गुलक-मनःशिला- सस्यकाञ्चनप्रवालकाभ्रपटलाभ्रवालिकाजातिनामादि गोमेदकरुचकाङ्क-स्फटिकलोहिताक्ष-जलावभास-वैडूर्य-चन्द्रकान्त-सूर्यकान्त-जलकान्त- मसारगल्लाश्मगर्भ-सौगन्धिक-पुलकारिष्ट-काञ्चनमणिजातिनामादि च ॥ अकायिकजातिनामानेकविधम् । तद्यथा । उपक्लेदावश्याय-नीहार-हिम-घनोदकशुद्धोदकजातिनामादि ॥ तेजःकायिकजातिनामानेकविधम् । तद्यथा ।